10th sanskrit

bihar board 10 class sanskrit book notes | भारतीयसंस्काराः

भारतीयसंस्काराः

image

bihar board 10 class sanskrit book notes

class – 10

subject – sanskrit

lesson 6 – भारतीयसंस्काराः

भारतीयसंस्काराः

SabDekho.in

( भारतीयसंस्कृतेः अन्यतमं वैशिष्ट्यं विद्यते यत् जीवने इह समये समये संस्कारा अनुष्ठिता भवन्ति । अद्य संस्कारशब्दः सीमितो व्यङ्ग्यरूपः प्रयुज्यते किन्तु संस्कृतेरूपकरणमिदं भारतस्य व्यक्तित्वं रचयति । विदेशे निवसन्तो भारतीयाः संस्कारान् प्रति उन्मुखा जिज्ञासवश्च । पाठेऽस्मिन् तेषां संस्काराणां संक्षिप्तः परिचयो महत्त्वञ्च निरूपितम् । )

भारतीयजीवने प्राचीनकालत : संस्कारा : महत्त्वमधारयन् । प्राचीनसंस्कृतेरभिज्ञानं संस्कारेभ्यो जायते । अत्र ऋषीणां कल्पनासीत् यत् जीवनस्य सर्वेषु मुख्यावसरेषु वेदमन्त्राणां पाठः , वरिष्ठाणाम् आशीर्वादः , होमः , परिवारसदस्यानां सम्मेलनं च भवेत् । तत् सर्व संस्काराणामनुष्ठाने संभवति । एवं संस्काराः महत्त्वं धारयन्ति । किञ्च संस्कारस्य मौलिकः अर्थः परिमार्जनरूप : गुणाधानरूपश्च न विस्मयते । अत : संस्कारा : मानवस्य क्रमशः परिमार्जने दोषापनयने गुणाधाने च योगदानं कुर्वन्ति ।

शब्दार्थ : गुणाधानरूपाः संस्काराः परिष्काराः – संस्कार , परिष्कार , गुणों का आधान , अभिज्ञानम् – परिचय : – पहचान , कल्पना -अभिधारणा – अवधारणा , सोच , दोषापनयने दोषनिवारणे – दोषों को दूर करने में , गुणाधाने – गुणानाम् अङ्गीकारे – गुणों के ग्रहण में ।
सरलार्थ : भारतीय जीवन में प्राचीनकाल से ही संस्कारों की महत्ता है । प्राचीन संस्कृति की पहचान संस्कारों से है । यहाँ ऋषियों की कल्पना थी कि जीवन के सभी प्रमुख अवसरों पर वेदमंत्रों का पाठ , श्रेष्ठजनों का आशीर्वाद , होम और परिवार के सभी सदस्यों का मिलाप होना चाहिए । ये सभी संस्कारों के आयोजन से ही संभव हो पाता है । इस तरह संस्कार का महत्त्व है । लेकिन संस्कार का मूल अर्थ परिमार्जन और गुणों का आधान है , नहीं भूलना चाहिए । इस तरह संस्कार मानव का क्रमशः परिमार्जन में , दोषों को दूर करने में , गुणों के ग्रहण करने में योगदान देता है ।

संस्काराः प्रायेण पञ्चविधाः सन्ति – जन्मपूर्वास्त्रयः , शैशवा : षट् , शैक्षणिकाः पञ्च , गृहस्थसंस्कारः विवाहरूपः एकः , मरणोत्तरसंस्कारश्चैकः । एवं षोडश संस्काराः भवन्ति । जन्मपूर्वसंस्कारेषु गर्भाधानं पुंसवनं सीमन्तोनयनं चेति त्रयो भवन्ति । अत्र गर्भरक्षा , गर्भस्थस्य संस्कारारोपणम् , गर्भवत्याश्च प्रसन्नता चेति प्रयोजनं कल्पितमस्ति । शैशवसंस्कारेषु जातकर्म , नामकरणम् , निष्क्रमणम् , अन्नप्राशनम् , चूडाकर्म , कर्णवेधश्चेति क्रमशो भवन्ति ।

शब्दार्थ : निष्क्रमणम् – बहिर्गमनम् – बाहर निकलना , अन्नप्राशनम् – अन्नस्वीकरणम् अन्न का भोजन , उपनयनम् – गुरोः सान्निध्यप्रापणम् – गुरु के पास ले जाने वाला संस्कार ( पुर गुरुः शिष्यं स्वाश्रमं प्रति नयति स्म अत : संस्कारस्य नाम उपनयनम् अस्ति ) ।

सरलार्थ – संस्कार मुख्य रूप से पाँच प्रकार के हैं- जन्म से पूर्व तीन , शैशवावस्था में छह , शैक्षिक पाँच हस्थ संस्कार विवाह रूप में एक और मृत्यूपरान्त एक । इस तरह 16 संस्कार हैं । जन्मपूर्व संभारों में गर्भाधान , पुंसवन , सीमन्तोनयन तीन संस्कार होते हैं । यहाँ गर्म की रक्षा , गर्भस्थ बच्चों में संस्कार रोपण और गर्भवती की प्रसन्नता के प्रयोजन की कल्पना है ।
शैशव संस्कारों में जातकर्म , नामकरण , निष्क्रमण , अन्न प्रासन्नम् , चूडाकरण और कर्णवेध क्रमश : होते हैं।

शिक्षासंस्कारेषु अश्वरारम्भः , उपनयनम् , वेदारम्भः , केशान्तः समावर्त्तनञ्चेति संस्काराः प्रकल्पिताः । अक्षरारम्भे अक्ष लेखनम् अङ्कलेखनं च शिशुः प्रारभते । उपनयनसंस्कारस्य अर्थ : गुरुणा शिष्यस्य स्व गृहे नयनं भवति । तत्र शिष्यः शिक्षानियमान् पालयन् अध्ययनं करोति । ते नियमाः ब्रह्मचर्यव्रते समाविष्टाः । प्राचीनकाले शिष्यः ब्रह्मचारी इति कथ्यते स्म । गुरुगृहे एव शिष्यः वेदारम्भं करोति स्म । वेदानां महत्त्वं प्राचीनशिक्षायाम् उत्कृष्टं मन्यते स्म । केशान्तसंस्कारे गुरुगृहे एव शिष्यस्य प्रथमं क्षौरकर्म भवति स्म । अत्र गोदानं मुख्यं कर्म । अतः साहित्यग्रन्थेषु अस्य नामान्तरं गोदानसंस्कारोऽपि लभ्यते । समावर्त्तनसंस्कारस्योद्देश्य शिष्यस्य गुरुगृहात् गृहस्थजीवने प्रवेशः । शिक्षावसाने गुरुः शिष्यान् उपदिश्य गृहं प्रेषयति । उपदेशेषु प्रायेण जीवनस्य धर्माः प्रतिपाद्यन्ते । यथा- सत्यं वद , धर्म चर , स्वाध्यायान्मा प्रमदः इत्यादि ।

शब्दार्थ : क्षौरकर्म केशस्य कर्तनम् – केशों को काटनेवाला कर्म , सप्तपदी विवाहसंस्कारे पत्या सह पल्याः विवाह संस्कार में पति के साथ पत्नी , सप्तवारं चक्रविशेषे पदनिधानम् का सात बार अल्पना – विशेष में पैर देना , लाजाहोमः – धान्यस्य लाजया विधीयमानं हवनम् धान के लावे से किया जाने वाला हवन ।

सरलार्थ : शिक्षा संस्कारों में अक्षरारम्भ , उपनयन , वेदारम्भ , केशवपन और समावर्तन की कल्पना है । अक्षरारम्भ में अक्षर लेखन और अंक लेखन बच्चे प्रारंभ करते हैं । उपनयन संस्कार का अर्थ है गुरु के द्वारा शिष्य को अपने घर ( आश्रय ) में लाना । वहाँ शिष्य शिक्षा के नियमों को पालन करते हुए अध्ययन करता है । वे नियम ब्रह्मचर्य व्रत के अन्तर्गत समाविष्ट हैं । प्राचीन काल में शिष्य को ब्रह्मचारी कहा जाता था । गुरु के आश्रय में ही शिष्य सर्वप्रथम वेदारम्भ करता था । वेदों का महत्त्व प्राचीन शिक्षा में उत्कृष्ट माना जाता था । केश काटने का संस्कार भी शिष्य का प्रथम क्षौर कर्म गुरु के आश्रम में ही होता था । यहाँ गोदान मुख्य कर्म था । इसलिए साहित्य ग्रन्थों में इसका दूसरा नाम गोदान संस्कार भी मिलता है । समावर्तन संस्कार का उद्देश्य था शिष्य का गुरु के आश्रम से गृहस्थ जीवन में प्रवेश । शिक्षा के अन्त में गुरु शिष्य को उपदेशित करके घर भेजते थे । उपदेशों में मुख्यत : जीवन के धर्म को प्रतिपादित किया जाता था । जैसे – सच बोलो , धर्म का आचरण करो ; स्वाध्याय से उद्विग्न नहीं हो आदि ।

विवाहसंस्कारपूर्वकमेव मनुष्यः वस्तुतो गृहस्थजीवनं प्रविशति । विवाहः पवित्रसंस्कारः मतः यत्र नानाविधानि कर्मकाण्डानि भवन्ति । तेषु वाग्दानम् , मण्डपनिर्माणम् , वधूगृहे वरपक्षस्य स्वागतम् , वरवध्वोः परस्परं निरीक्षणम् , कन्यादानम् , अग्निस्थापनम् , पाणिग्रहणम् , लाजाहोमः , सप्तपदी , सिन्दूरदानम् इत्यादि । सर्वत्र समानरूपेण विवाहसंस्कारस्य प्रायेण आयोजनं भवति । तदनन्तरं गर्भाधानादयः संस्काराः पुनरावर्तन्ते जीवनचक्रं च भ्रमति । मरणादनन्तरम् अन्त्येष्टिसंस्कारः अनुष्ठीयते । एवं भारतीयजीवनदर्शनस्य महत्त्वपूर्णमुपादानं संस्कारः इति ।

शब्दार्थ : अन्त्येष्टिसंस्कारः – मृतशरीरस्य अग्नी ज्वालनम् – ‘ शव को अग्नि में जलाना । ( कुछ विशेष परिस्थितियों में शव का भूमि में गाड़ा भी जाता है ) , उपादानम् – मोत : स्वरूपम् मुख्यकारणम् – स्रोत स्वरूप ।

सरलार्थ : विवाह संस्कार होने पर ही वस्तुतः मनुष्य गृहस्थ जीवन में प्रवेश करता है । विवाह एक पवित्र संस्कार है जिसमें अनेक प्रकार के कर्मकाण्ड होते हैं । उनमें वचन देना मण्डप बनाना , वधू के घर वरपक्ष का स्वागत , वर वधू का एक – दूसरे को देखना , कन्यादान , अग्निस्थापन , पाणिग्रहण , लाजाहोम , सप्तपदी , सिन्दूरदान आदि मुख्य हैं । सर्वत्र समान रूप से विवाह संस्कार का आयोजन होता है । इसके बाद गर्भाधान आदि संस्कार पुनः प्रारंभ होकर जीवन चक्र घूमता है । मृत्यु के पश्चात् शव को अग्नि में जलाने का संस्कार किया जाता है । इस तरह भारतीय जीवन दर्शन का संस्कार एक महत्त्वपूर्ण अंग है ।

पदच्छेदाः

महत्त्वमधारयन्=महत्वम्+ अधारयन्
प्राचीनसंस्कृतेरभिज्ञानम्=प्राचीनसंस्कृतेः + अभिज्ञानम्
कल्पनासीत्=कल्पना +आसीत्
मुख्यावसरेषु=मुख्य + अवसरेषु
संस्काराणामनुष्ठाने=संस्काराणाम् +अनुष्ठाने
गुणाधानरुपश्च = गुण + आधानरूप : + च
दोषापनयने= दोष + अपनयने
जन्मपूवाऀस्त्रयः=जन्मपूर्वाः + त्रयः
मरणोत्तरसंस्कारश्चैक = मरण + उत्तर संस्कार : + च + एक :
सीमन्तोन्नयनम् =सीमान्त+उत्+ नयनम्
संस्कारारोपणम् =सम् + कार + आरोपणम्
गर्भवत्याश्च =गर्भवत्याः + च
निष्क्रमणम् =निः + क्रमणम्
कर्णवेधश्चेति =कर्णवेधः + च + इति
अक्षरारम्भः =अक्षर + आरम्भः
वेदारम्भः=वेद + आरम्भः
केशान्तः=केश + अन्तः
गोदानसंस्कारोऽपि=गोदानसंस्कारः + अपि
निरीक्षणम् =निः + ईक्षणम्
तदनन्तरम्=तत् + अनन्तरम्
पुनरावर्त्तन्ते =पुनः + आवर्तन्ते
मरणादनन्तरम् =मरणात् + अनन्तरम्
अन्त्येष्टि= अन्त्य + इष्टि

व्याकरणम्

संस्कारः =सम् + क + घञ्
संस्कृतेः =सम् + कृ + क्तिन् प.वि. ए.व.
अभिज्ञानम्=अभि + ज्ञा + ल्युट्
सम्मेलनम्=सम् + मिल् + ल्युट्
निष्क्रमणम्=निस् + क्रम् + ल्युट
उन्नयनम्=उत् + नी + ल्युट्
आधानम् =आङ् + धा + ल्युट्
उपनयनम् =उप + नी + ल्युट्
आरोपणम्=आङ् + रुह् + णिच् + ल्युट्
निरीक्षणम् =निर् + ईक्ष् + ल्युट्
अध्ययनम् =अधि + इङ् + ल्युट्
लेखनम् =लिख् + ल्युट्
पालयन् =पाल् + णिच् + शतृ
प्रसन्नता=प्रसन्न + तल + टापू
महत्त्वम्=महत् + त्वम्
समाविष्टाः=सम् + आङ् – विश् + क्त
स्थापनम्=स्था – णिच् + ल्युट्
ग्रहणम्=ग्रह + ल्युट्
दानम् = दा + ल्युट्
प्रवेश : =प्र + विश् + घ
निर्माणम् =निर्+ मा + ल्युट्
आयोजनम् =आङ् + युज् + णिच् + ल्युट्
उपदिश्य=उप + दिश् + ल्यप्
उत्कृष्टम्=उत् + कृष् + क्त
संक्षिप्तः =सम् + क्षिप् + क्त
निवसन्तः =नि + वस् + शतृ प्र.वि. ब.व.
मौलिक : =मूल + ठक्
शैक्षणिकाः =शिक्षण + ठक् प्र.वि. ब.व.
पाठः=पठ् + घ
अनुष्ठाने =अनु + स्था + ल्युट् स.वि. ए.व.

अभ्यासः
मौखिकः 1 . एकपदेन बदत
(क) संस्काराः कति सन्ति ?
( ख ) जन्मत : पूर्व कति संस्काराः भवन्ति ?
( ग ) शैशवे कति संस्काराः भवन्ति ?
(घ)अक्षरारम्भः कीदृशः संस्कारः ?
(ङ)गृहस्थजीवनस्य एकः संस्कारः कः ?

उत्तरम्– ( क ) षोडश :
( ख ) त्रयः
( ग ) पटू
(घ) शिक्षा
(ङ)समावर्तन

लिखितः

1.एकपदेन उत्तराणि लिखत
( क ) भारतीयसंस्कृत : परिचय : केभ्य : जायते ?
(ख)शैक्षणिका : संस्काराः कति सन्ति ?
( ग ) ‘ सप्तपदी ‘ क्रिया कस्मिन् संस्कारे विधीयते ?
(घ)भारतीयदर्शनस्य महत्त्वपूर्णम् उपादानं किम् ? ( ङ ) सीमन्तोन्नयनं कषु संस्कारेषु गण्यते ?
(च) अन्नप्राशनम् केषु संस्कारेषु गण्यते ?
( छ ) गुरुगृहे शिष्यः कान् पालयन् अध्ययनं करोति ?

उत्तरम्– ( क ) संस्कारेभ्यः
(ख)पञ्च
( ग ) विवाह संस्कारे
(घ)संस्कार :
(ङ)जन्मपूर्वसंस्कारेषु
( च ) शैशवसंस्कारेषु
(छ) शिक्षानियमान्

2 . पूर्णवाक्येन उत्तराणि लिखत –
( क ) संस्काराः मानवस्य कुत्र – कुत्र योगदानं कुर्वन्ति ?
( ख )शैक्षणिकसंस्कारेषु के के संस्काराः प्रकल्पिताः ?
( ग ) शैशवसंस्कारेषु के के संस्काराः सम्पद्यन्ते ? ( घ ) विवाहसंस्कारे कानि मुख्यानि कार्याणि भवन्ति ?
( ङ ) अन्त्येष्टिसंस्कार : कदा सम्पाद्यते ?
(च)पुंसवनसंस्कारः कदा क्रियते ?
(छ)पुरा शिष्यः वेदारम्भं कुत्र करोति स्म ?

उत्तरम्– ( क ) संस्काराः मानवस्य क्रमशः परिमार्जने दोषापनयने गुणाधाने च योगदान कुर्वन्ति ।
( ख ) शिक्षासंस्कारेषु अक्षरारम्भः , उपनयनम् , वेदारम्भः , केशान्त : समावर्तनञ्चेति संस्काराः प्रकल्पिताः ।
( ग ) शैशवसंस्कारेषु जातकर्म , नामकरणम् , निष्क्रमणम् , अन्नप्राशनम् , चूडाकर्म , कर्णवेधश्चेति क्रमशो भवन्ति ।
( घ ) विवाहसंस्कारे वाग्दानम् , मण्डपनिर्माणम् , वधूगृहे वरपक्षस्य स्वागतम् , वरवध्वोः परस्परं निरीक्षणम् , कन्यादानम् , अग्निस्थापनम् , पाणिग्रहणम् , लाजाहोमः सप्तपदी , सिन्दूरदानम् इत्यादि मुख्यानि कार्याणि भवन्ति ।
( ङ ) मरणादनन्तरम् अन्त्येष्टिसंस्कारः सम्पाद्यत । ( च ) पुंसवनसंस्कारः जन्मपूर्व क्रियते ।
( छ ) पुरा शिष्यः वेदारम्भं गुरुगृहे करोति स्म ।

3.अधोलिखितम् उदाहरणं ध्यानेन पठत । ततः प्रदत्तपदैः …… कृत्वा …… करोति / कुर्वन्ति प्रयोगपूर्वकं च एकैकं वाक्यं रचयत ।
उदाहरणम्- ( क ) बालकः स्नानं कृत्वा अध्ययन करोति । ( ख ) जनाः भोजनं कृत्वा शयनं कुर्वन्ति ।
प्रश्नाः
(क) अग्निस्थापनम् ( ख ) अक्षरलेखनम्
( ग ) पाणिग्रहणम् (घ)निरीक्षणम्
( ङ ) गौदानम् ( च ) उपनयनम् (छ) वाग्दानम्

उत्तरम्– ( क ) अग्निस्थापनम् – रामः स्नानं कृत्वा अग्निस्थापनं करोति ।
( ख ) अक्षरलेखनम् – बालकः अक्षरारभ्यं कृत्वा अक्षरलेखनम् करोति ।
(ग) पाणिग्रहणम् – वर : अग्निस्थापनं कृत्वा पाणिग्रहणम् करोति ।
(घ)निरीक्षणम् – वरः कन्या निरीक्षणम् कृत्वा अग्निस्थापनं करोति ।
(ङ)गोदानम् – रामः पूजां कृत्वा गोदानं करोति ।
(च)उपनयनम् – बालक : अक्षरारम्भ कृत्वा उपनयनं करोति ।
(छ)वाग्दानम् – सः सम्यक् विचारं कृत्वा वाग्दानं करोति ।

4 . अधोलिखित – स्तम्भद्वये प्रदत्तपदानां समुचितविलोमपदैः सह मेलनं कृत्वा लिखत ।
स्तम्भः ( क ).                        स्तम्भः ( ख )
(अ) प्रयोजनम्                    ( क ) अप्रसन्नता
( आ ) प्रसन्नता                  ( ख ) निष्प्रयोजनम्
(इ)संस्काराः                       ( ग ) आनयनम्
( ई ) अपनयनम्                  ( घ ) विस्मर्यते
( उ ) स्मर्यते                          (ङ) कुसंस्काराः
(ॠ) वरिष्ठानाम्                    ( च ) गुणापनयनम् ( ऋ ) गुणाधानम्                   ( छ ) कनिष्ठानाम्

उत्तरम्-
स्तम्भः ( क )                       स्तम्भः ( ख )
( अ ) प्रयोजनम्           ( ख )  निष्प्रयोजनम्
( आ ) प्रसन्नता             ( क ) अप्रसन्नता
(इ) संस्काराः               ( ङ ) कुसंस्काराः
( ई ) अपनयनम्            (ग)  आनयनम्
(उ)  स्मर्यते                  ( घ ) विस्मर्यते
(ऊ) वरिष्ठानाम्              ( छ ) कनिष्ठानाम्
( ऋ ) गुणाधानम्            ( च ) गुणापनयनम्

5 . निम्नाङ्कित्तप्रकृतिप्रत्ययानां योगं कृत्वा पदानि प्रदर्शयत ।
(क) परि + मृज् + णिच् + ल्युट्
(ख) शिशु + अण
(ग) प्र + अश् + ल्युट्
(घ)लिख + ल्युट्
उत्तर-(क) परि + मृज् + णिच् + ल्युट् – परिमार्जनम्
(ख)शिशु + अण् – शैशवम्
(ग) प्र + अश् + ल्युट – प्रश्नम्
(घ) लिख + ल्युट् – लेखनम्

योग्यताविस्तार :

प्रस्तुतपाठः वर्तमानसन्दर्भ स्वकीयं भारतीयमूल्य प्रति जागरणम् उत्पादयति । सम्प्रति यथा – यथा भौतिकविकासः जायमानः अस्ति यथा यथा आध्यात्मिकहासः परिलक्षितः भवति । अस्या स्थितौ भारतीयसंस्काराः सार्वकालिक जीवनमूल्यं संवर्द्धयितुं समर्थाः सन्ति । अत : संस्कृतशिक्षकस्य अनुसन्धानेन सम्बद्धानां पत्र – पत्रिकाणां च सहयोगेन संस्काराणां वैज्ञानिकत्वं ज्ञातव्यम् । यतो हि अस्माकं संस्काराणाम् एकैक : पक्षः स्वास्थ्यविज्ञानस्य पारिस्थितिकतन्त्रस्य , समरससामाजिकजीवनदर्शनस्य च दृष्टिकोणैः सम्पुष्टः सूक्ष्मश्च अस्ति । अतः एतेषां निरादरः निन्दनीयः अस्ति । मौलाना एकवालः भारतीयसंस्कारान् एव उद्दिश्य सगर्वम् उक्तवान् आसीत् –
यूनान मित्र रोम सब मिट गये जहाँ से
कुछ बात है कि हस्ती मिटती नहीं हमारी ।




संस्कारवर्द्धककार्याणि –

1 . प्रातः जागरणम् – प्रातः उत्थाय ( सूर्योदयात् पूर्वमेव ) करौ संयोज्य करतलं विलोकयन् संकल्पपूर्वकं पठेत् : –
कराने वसते लक्ष्मी : करमध्ये सरस्वती ।
करमूले भवेद् गौरी , प्रभाते करदर्शनम् ।।
इति पठित्वा करतलं परस्परं संस्पृश्य नेत्रे स्पृशेत् । ततः भूमिं स्पृष्ट्वा पठेत् –
समुद्रवसने देवि पर्वतस्तनमण्डिते ।
विष्णुपत्नी ! नमस्तुभ्यं पादस्पर्श क्षमस्व मे ।।
तत : मातापितरौ परिवारस्य ज्येष्ठान् श्रेष्ठान् गुरुजनान् च प्रणमेत् । यतो हि अस्माकं वैज्ञानिकी संस्कृतिः उपदेशं करोति
मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव ।

2. गायत्रीसन्ध्योपासनम् —
इदं वेदप्रमाणितं तथ्यं वर्तते , यस्य आधुनिकवैज्ञानिका अपि समर्थनं कुर्वन्ति यत् गायत्रीजपेन सन्ध्योपासनया च आयुः , विद्या , यशः , कान्तिः , शान्ति , तेजः , अमरत्वं च प्राप्यन्ते । अतः स्वदैनिककार्यक्रमे गायत्रीजपस्य संध्योपासनस्य च कृते एक : निश्चितसमय : सुरक्षितः करणीयः । व्यक्तित्वसंवर्द्धनाय अयमेक : अमोघः ( अचूक ) उपायः अस्तिा प्राणायामसाधना अपि संध्योपासनस्यैव अंगभूता अस्ति । संस्कृतशिक्षकस्य योगशिक्षकस्य च सहयोगेन अभिभावकानां च परामर्शः अस्मिन् सम्बन्धे कार्य करणीयम् ।

3.  संस्काराणां महत्त्वप्रतिपादकानि बहूनि गीतानि लोकपरम्परायां प्रसिद्धानि सन्ति । तत्र उपनयनसंस्कारे केशकर्तनकाले गीयमानं संस्कारगीतम् –
नापित ! शनैः शनैः बटोः केशं मुण्डय -2
केशं मुण्डय रे नापित केशं मुण्डय । नापित ! शनैः …. यदि त्वं बटोः केशं मुण्डयिष्यसि – 2
बटोः माता भूरि द्रव्यं दास्यति ।। नापित ।

Leave a Comment

image
error: Content is protected !!