10th sanskrit

bihar board 10th class sanskrit book notes | नीतिश्लोकाः

नीतिश्लोकाः

bihar board 10th class sanskrit book notes

class – 10

subject – sanskrit

lesson 7 – नीतिश्लोकाः

नीतिश्लोकाः

SabDekho.in

( अयं पाठः सुप्रसिद्धस्य ग्रन्थस्य महाभारतस्य उद्योगपर्वण : अंशविशेष ( अध्यायाः 33-40 ) रूपायाः विदुरनीते : संकलितः । युद्धम् आसन्नं प्राप्य धृतराष्ट्रो मन्त्रिप्रवरं विदुरं स्वचित्तस्य शान्तये कांश्चित् प्रश्नान् नीतिविषयकान् पृच्छति । तेषां समुचितमुत्तरं विदुरो ददाति । तदेव प्रश्नोत्तररूपं ग्रन्थरलं विदुरनीतिः । इयमपि भगवद्गीतेव महाभारतस्याङ्गमपि स्वतन्त्रग्रन्थरूपा वर्तते । )

यस्य कृत्यं न विजन्ति शीतमुष्णं भयं रतिः ।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥

अन्वय – यस्य कृत्यं शीतम् , उष्णं , भयं , रतिः , समृद्धि , असमृद्धिः वा ( च ) न विघ्नन्ति सः वै पण्डित उच्यते ।

शब्दार्थ – रतिः – आनन्दः – भावुकता ।

सरलार्थ – जिसके कर्म ( कार्य ) को ठंडक , गर्मी , भय , भावुकता , समृद्धि या असमृद्धि ( सुख – दुःख ) आदि विनष्ट नहीं करे उसे ही पंडित कहा जाता है ।

तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् ।
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥2 ॥

अन्वय – सर्वभूतानां तत्त्वज्ञः सर्वकर्मणां योगज्ञः मनुष्याणाम् ( च ) उपायज्ञः नरः पण्डितः उच्यते ।

शब्दार्थ – तत्वज्ञः- रहस्यज्ञः- रहस्य को जाननेवाला , योगज्ञः – कौशलं जानाति – कौशल जाननेवाला , उच्यते – कथ्यते – कहा जाता है , उपायज्ञो – उपायं जानाति – उपाय को जाननेवाला ।

सरलार्थ – सभी जीवों के रहस्य को जानने वाला , सभी कर्म के कौशल को जानने वाला , और मनुष्यों के उपाय को जानने वालों मनुष्य को पंडित कहा जाता है ।
अनाहूतः प्रविशति अपृष्टो बहु भाषते ।
अविश्वस्ते विश्वसिति मूढचेता नराधमः ॥3 ॥

अन्वय – मूढचेता नराधमः अनाहूतः प्रविशति , अपृष्टः ( अपि ) बहु भाषते , अविश्वस्ते विश्वसिति ।

शब्दार्थ – अनाहूतः – न आहूतः – बिना बुलाये हुए , अपृष्टः – न पृष्टः- बिना पूछे हुए अविश्वस्ते – अविश्वासयोग्ये जने – अविश्वसनीय व्यक्ति घर , मूढचेता- मूर्खः – मूर्ख हद वाला , नराधमः – निकृष्टः जनः – मनुष्यों में नीच ।

सरलार्थ – मूर्ख हृदय वाला मनुष्यों में नीच बिना बुलाए हुए प्रवेश करता है , बिना पूछे तुम बहुत बोलता है , अविश्वसनीय व्यक्ति पर विश्वास करता है ।

एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा ।
वियका परमा तृप्तिः अहिंसैका सुखावहा ।।4 ।।

अन्वय – एक : ( एव ) धर्मः परं श्रेयः , एका ( एव ) क्षमा उत्तमा शान्तिः , एका विद्या परम तृप्तिः , एका अहिंसा ( च ) ( परमा ) सुखावहा ( भवति ) । शब्दार्थ -सुखावहा – सुखदा – सुख देनेवाली ।

सरलार्थ – एक ही धर्म श्रेष्ठ श्रेय देने वाला है , एक क्षमा ही उत्तम शान्ति , एक विद्या ही परम तृप्ति देनेवाली है और एक अहिंसा ही परम सुख देने वाली है ।

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ।।5 ।।

अन्वय – नरकस्य इदम् त्रिविधं द्वारं कामः , क्रोधः तथा लोभः ( चेति ) । तस्मात् आत्मनः नाशनम् एतत् त्रयं त्यजेत् ।

सरलार्थ – काम , क्रोध और लोभ ये तीन नरक के द्वार हैं । अत : आत्मा को नष्ट होने से बचाने के लिए इन तीनों को छोड़ दें ।

षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥6 ॥

अन्वय – भृतिम् इच्छता पुरुषेण इह निद्रा , तन्द्रा , भयं , क्रोधः , आलस्य , दीर्घसूत्रता ( च ) पड़ दोषाः हातव्याः ।

शब्दार्थ – भूतिम् – ऐश्वर्यम् – ऐश्वयं को , इच्छता वाञ्छता – चाहते हुए , सरलार्थ – ऐश्वर्य चाहने वाले व्यक्ति को निद्रा , तन्द्रा , भय , क्रोध , आलस्य और दीर्घसूत्रता इन छह दोषों को त्याग देना चाहिए ।

सत्येन रक्ष्यते धर्मों विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥7 ॥

अन्वय – धर्मः सत्येन रक्ष्यते , विद्या योगेन रक्ष्यते , रूपं मृजया रक्ष्यते , कुलं ( च ) वृत्तेन रक्ष्यते ।

शब्दार्थ – मृजया – शुद्धया ( शृङ्गारोपचारेण ) – स्वच्छता या उबटन आदि के द्वारा ।

सरलार्थ – धर्म की रक्षा सत्य से , विद्या की रक्षा योग से , रूप की रक्षा स्वच्छता से और कुल की रक्षा वृत्ति से होती है ।

सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥8 ॥

अन्वय – हे राजन् । सततं प्रियवादिनः पुरुषाः सुलभाः ( सन्ति ) तु अप्रियस्य पथ्यस्य वक्ता श्रोता च दुर्लभः ( अस्ति ) ।

शब्दार्थ – प्रियवादिन : – मधुरभाषिणः – प्रिय बोलने वाले । सरलार्थ – हे राजन् सदा प्रिय बोलने वाले आसानी से मिल जाते हैं लेकिन अप्रिय हितकारी बोलने वाला और सुनने वाला दुर्लभ है।

पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः ।
स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥9 ॥

अन्वय – गृहस्य श्रियः , गृहदीप्तयः पुण्याः महाभागाश्च स्त्रियः पूजनीयाः उक्ताः ( सन्ति ) । तस्मात् ( एताः ) विशेषत : रक्ष्याः ( भवन्ति ) ।

सरलार्थ – घर की लक्ष्मी , घर की ज्योति , पवित्रात्मा , सौभाग्यवती स्त्रियों को पूजनीया कहा गया है । अतः इनकी रक्षा विशेष रूप से करनी चाहिए ।

अकीर्ति विनयो हन्ति हन्त्यनर्थ पराक्रमः ।
हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ।। 10

अन्वय – विनय : अकौति हन्ति , पराक्रमः अनर्थ हन्ति , क्षमा नित्यं क्रोध हन्ति , आचारः ( च ) अलक्षणं हन्ति ।

शब्दार्थ – अकीर्तिम् – अपयशः – अपयश , हन्ति – नाशयति – नाश करता है , अलक्षणम् – कुलक्षणम् – कुलक्षण , कुरूपता ।

सरलार्थ – विनय अपयश को नष्ट करता है , पराक्रम अनर्थ को नष्ट करता है , क्षमा क्रोध को नष्ट करता है और सदाचरण कुलक्षण को नष्ट करता है ।

व्याकरणम्

सन्धिविच्छेदः

समृद्धिरसमृद्धि =समृद्धिः + असमृद्धिः । वा
विद्यैका =विद्या + एका
अहिंसैका =अहिंसा . एका
नरकस्येदं =नरकस्य + इदम्
नाशनमात्मनः =नाशनम् । आत्मनः
गृहस्योक्तास्तस्माद्रक्ष्या =गृहस्य + उक्ताः + तस्मात् + रक्ष्याः
क्रोधमाचारः =क्रोधम् + आचारः
हन्त्यलक्षणम्=हन्ति + अलक्षणम्
समृद्धिः + असमृद्धिः । वा विद्या + एका अहिंसा . एका नरकस्य + इदम् नाशनम् । आत्मनः गृहस्य + उक्ताः + तस्मात् + रक्ष्याः क्रोधम् + आचारः हन्ति + अलक्षणम्

प्रकृतिप्रत्ययविभागः

निवर्त्य =नि । वृत् । ल्यप्
उपगभ्य=उप + गम् + ल्यप्
वक्तव्यम् =वच् + तव्यत्
परिहत्य =परि + इ . ल्यप्
साध्यः=साध् + ण्यत्
गृहीत्वा=ग्रह + क्त्वा
जित्वा=जि + क्त्वा
भेतव्यम् =भी + तव्यत्
भेद्यम्=भिद् + ण्यत्
दातव्यम् =दा + तव्यत्
जनितम् =जन् + क्त
आचारः=आङ् + चर् + घ i
लोभः =लुभ् + घञ्

अभ्यास

मौखिकः
1 . एकपदेन उत्तरं वदत

( क ) विदुरः कः आसीत् ?
( ख ) मूढचेता नराधमः कस्मिन् विश्वसिति ?
( ग ) उत्तमा शान्तिः का ?
(घ) का परमा तृप्तिः ?
(ङ)नरकस्य कियद् द्वारं परिगणितम् ?
(च)विद्या केन रक्ष्यते ?
( छ ) विनयः कं हन्ति ?

उत्तरम्– ( क ) धृतराष्ट्रस्य मंत्रिप्रवरः
(ख)अविश्वसते
(ग ) क्षमा ।
(घ)विद्या ।
(ङ)त्रिविधम् ।
( च ) योगेन ।
( छ ) अकीर्तिम्

2 . श्लोकांशं योजयित्वा वदत
( क ) त्रिविधं नरकस्येदं द्वारं ……….।
कामक्रोधस्तया………. त्रयं त्यजेत् । ।

(ख)सत्येन रक्ष्यते  धर्मो……… .।
…………….कुलं वृत्तेन रक्ष्यते ।।

उत्तरम्– (ख)त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामक्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ।।
( ख ) सत्येन रक्ष्यते धर्मो विद्यायोगेन रक्ष्यते । मृगया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ।।

लिखितः 1 . एकपदेन उत्तरं वदत-
(क) केषां तत्वज्ञः पण्डितः उच्यते ?
(ख) अनाहूतः कः प्रविशति ?
(ग) धर्मः केन रक्ष्यते ?
( घ ) क्षमा कं हन्ति ?
(ङ)सुखावहा का ?
(च) नरकस्य त्रिविधं द्वारं कस्य नाशनम् ?
( छ ) केन षड् दोषाः हातव्याः ?
उत्तरम्– ( क ) सर्वभूतानां ।
(ख)मूढचेतानराधमः
( ग ) सत्येन
( घ ) क्रोधम्
(ङ) अहिंसा
(च) आत्मनः
(छ)भूतिभिच्छता

2 . उदाहरणमनुसृत्य क्तिन् प्रत्यय – योगेन शब्द निर्माणं करणीयम् –
उदाहरणम् – भू + क्तिन् = भूति :
प्रश्नाः
( क ) गम् + क्तिन्
शम् – क्तिन्
तृप् – क्तिन्
रम् + क्तिन्
सम् – ऋध् + क्तिन्
वृध् – क्तिन्
नी- क्तिन्
हन् -क्तिन
कृ – क्तिन्

उत्तरम्-

गम् + क्तिन् – गतिः
शम् – क्तिन – शक्तिः
तृप् + क्तिन् – तृप्तिः
रम् + क्तिन् – रतिः
सम् + ऋध् + क्तिन् – समृद्धिः
वृध् – क्तिन् – वृद्धिः
नी- क्तिन् — नीतिः
हन् – क्तिन् – हन्तिः
कृ + क्तिन् कृतिः

3 . उदाहरणानुसारं वाच्य परिवर्तनं कुरुत –
उदाहरणम्
( क ) कर्तृवाच्ये — विनयः अकीर्ति हन्ति ।
कर्मवाच्ये– विनयेन अकीर्तिः हन्यते ।
(ख)कर्मवाच्ये- धर्मः सत्येन रक्ष्यते ।
कर्तृवाच्ये – सत्यं धर्म रक्षति ।
प्रश्नाः
(क)पराक्रमः अनर्थ हन्ति ।
(ख)क्षमया क्रोधः हन्यते ।
( ग ) योगः विद्या रक्षति।
( घ ) मजया रूयं रक्ष्यते ।
(ङ) आचारेण अलक्षण : हन्यते ।
(च) मया ग्रन्थः पठ्यते ।
(छ)वयं वेदं पठामः ।

उत्तरम्
( क ) पराक्रमेण अनर्थ हन्यते ।
(ख) क्षमा क्रोध हन्ति ।
( ग ) योगेन विद्या रक्ष्यते ।
(घ)रूपं मृजा रक्षति ।
( ङ ) आचार : अलक्षणं हन्ति ।
(च) अहं ग्रन्थ पठामि ।
(छ) अस्मामिः वेदं पठ्यन्ते ।

4 . पूर्णवाक्येन उत्तरं लिखत –
( क ) पुरुषेण के पड् दोषाः हातव्याः ?
( ख ) पण्डितः कः उच्यते ?
(ग)एक एव धर्मः किं कथ्यते ?
( घ ) नरकस्य कानि त्रीणि द्वाराणि सन्ति ?
(ङ)कस्य कस्य च वक्ता श्रोता च दुर्लभः ?
(च) स्त्रियः गृहस्य का ; उक्ताः सन्ति ?
(छ)कुलं केन रक्ष्यते ?

उत्तरम्– ( क ) पुरुषेण निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता षड् दोषाः हातव्याः ।
( ख ) सर्वभूतानां तत्त्वज्ञः सर्वकर्मणां योगज्ञः मनुष्याणाम् ( च ) उपायज्ञः ना पण्डितः उच्यते ।
(ग)एक एव धर्मः श्रेयः कथ्यते ।
( घ ) नरकस्य कामः , क्रोध तथा लोभः त्रीणि द्वाराणि सन्ति ।
(ङ)अप्रियस्यतु पथ्यस्य वक्ता श्रोता च दुर्लभः ।
(च) स्त्रियः गृहस्य श्रियः उक्ताः सन्ति ।
(छ) कुलं वृत्तेन रक्ष्यत्ने ।

5 . निम्नाङ्कितपदैः एकैकं वाक्यं रचयत-
( क ) उच्यते , ( ख ) त्यजेत् , ( ग ) बहुभाषते , ( घ ) विश्वसिति , ( ङ ) वर्तते , ( च ) विघ्नन्ति , ( छ ) रक्ष्या ।
उत्तरम्
( क ) उच्यते – सः पण्डित : उच्यते ।
( ख ) त्यजेत् – लोभं त्यजेत् ।
( ग ) बहुभाषते – रामः कथं बहुभाषते ?
( घ ) विश्वसिति – सः सदा अविश्वस्ते विश्वसिति । ( ङ ) वर्तते – तत्र एका नदी वर्तते ।
( च ) विघ्नन्ति – यस्य कृत्यं शीतं , उष्णं , भयं न विघ्नन्ति सः पण्डितः उच्यते ।
( छ ) रक्ष्या – गृहलक्ष्मी विशेषरूपेण रक्ष्या भवति ।



योग्यताविस्तारः

धृतराष्ट्रेण सह विदुरस्य सम्पन्नः संवाद : ” विदुरनीति : ” इति कथ्यते । अनुभवसिद्धस्य विदुरस्य एकैकं पदं नीतिसम्मतं , व्यावहारिकम् अनुकरणीयञ्चास्ति । यदा धृतराष्ट्र : विदुरम्पृच्छति है विदुर ! अस्मिन् संसारे सुखानि कानि सन्ति ? विदुरः उक्तवान् –

अर्थागमोऽनित्यमरोगिता च ,
   प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रोऽर्थकरी च विद्या
षड् जीवलोकस्य सुखानि राजन् ।।

क्रियानुशीलनम्

(क) विदुरनीती व्यक्तित्वनिर्माणाय अमोघमन्त्राः दृश्यन्ते । तेषां मन्त्राणाम् अनुशीलनं करणीयम् । यथा स्व – दैनन्दिनी मध्ये आलस्यवशात् निद्रावशात् , भयवशात् , क्रोधवशात् दीर्घसूत्रतावशाच्च जायमानाः कुपरिणामाः लेखनीया :। तदनन्तरम् आलस्यविनाशाय स्फूर्तिमन्त्रस्य , निद्रा तन्द्रा निवारणाय जागरूकतायाः , भयशमनाय साहसस्य , क्रोधविनाशाय शान्तिमन्त्रस्य च साहाय्यं स्वीकरणीयम् ।

(ख) संस्कृतशिक्षकस्य सहयोगेन नीतिप्रदानां श्लोकानाम् संग्रहः कर्तव्यः । यथा –
(क) विक्लवा वीर्यहीनाश्च ते दैवं पर्युपासते । वीराः सम्भावितात्मानो न दैवं समुपासते ।। ( वाल्मीकिः )

( ख ) विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय । खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ।।

Leave a Reply

Your email address will not be published. Required fields are marked *