10th sanskrit

bihar board 10 class sanskrit solutions | भारतमहिमा

भारतमहिमा

image

bihar board 10 class sanskrit solutions

वर्ग – 10

विषय – संस्कृत

पाठ 5 –  भारतमहिमा

भारतमहिमा

SabDekho.in

( अस्माकं देश : भारतवर्षमिति कथ्यते । अस्य महिमा सर्वत्र गीयते । पाठेऽस्मिन् विष्णुपुराणात् भागवतपुराणात् च प्रथम द्वितीयं च क्रमशः पद्यं गृहीतमस्ति । अवशिष्टानि पद्यान्यध्यक्षेण निर्मीय प्रस्तावितानि । भारतं प्रति भक्तिरस्माकं कर्त्तव्यरूपेण वर्तते । )

पौराणिकी –

गायन्ति देवाः किल गीतकानि धन्यास्तु ते
भारतभूमिभागे ।स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥

अन्वय – देवा : गीतकानि गायन्ति- ते पुरुषाः धन्याः किल ( सन्ति ये ) स्वर्गापवर्गास्पदमा भारतभूमिभागे सुरत्वात् भूयः भवन्ति ।

शब्दार्थ – अकारि – अक्रियत -किया गया ( कृ+लुङ्लकार , प्र ० पु ० एकवदन कर्मवाच्य ) , किल – नूनम् – निश्चयवाचक अव्यय , सुरत्वात् -देवत्वात् – देवत्व के रूप स्वर्गापवर्गास्पदमार्गभूते – स्वर्ग – मोक्ष – योग्यमार्गरूपे – स्वर्ग और मोक्ष प्रदान करने योग्य  शब्दार्थ -साधनस्वरूप ।

सरलार्थ – देवगण गीत गाते हैं वे लोग धन्य हैं जिसने स्वर्ग और मोक्ष प्रदान कर योग्य – साधन भूत भारत भूमि देवता के रूप में पुनः पुनः जन्म लेते हैं ।

अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः । यैर्जन्म लब्ध नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि नः ।।

अन्वय– ( देवाः गायन्तः कथयन्ति ) अहो ! अमीषाम् ( एभिः ) किं शोभनम् अकारि ( यत् ) नृषु यैः भारताजिरे मुकुन्दसेवौपयिकं जन्म लब्धम् । स्विदुत एषां स्वयं हरिः प्रसन्नः । नः ( अपि ) स्पृहा ।

शब्दार्थ – भारताजिरे – भारतप्रांगणे – भारतभूमि में , स्विदुत – आहोस्वित् – अथवा मुकुन्दसेवौपयिकम् – विष्णुसेवायोग्यम् – श्रीहरि की सेवा के योग्य । स्पृहा – वाञ्छा – इच्छा !

सरलार्थ – देवगण गाते हुए कहते हैं – अहो इससे सुन्दर क्या किया गया जो मनुष्य रूप में भारत भूमि श्री हरि की सेवा के योग्य जन्म लिया अथवा भारत भूमि से स्वयं हरि प्रसन्न हैं यह भूमि हमलोगों के लिए स्पृहणीय है ।
आधुनिकी
इयं निर्मला वत्सला मातृभूमि :
प्रसिद्धं सदा भारतं वर्षमेतत् ।
विभिन्ना जना धर्मजातिप्रभेदै
रिहैकत्वभावं वहन्तो वसन्ति ।।

अन्वय – एतत् प्रसिद्धं भारतं वर्षम् , इयं सदा निर्मला वत्सला मातृभूमिः इह धर्मजातिप्रभेदैः विभिन्नाः जनाः एकत्वभावं वहन्तः वसन्ति ।

शब्दार्थ – वत्सला – वात्सल्ययुक्ता – ममतामयी , धर्म – जाति – प्रभैदैः – धर्मगत – जातिगत भेदोपभेदैः – धर्म और जाति के भेदों से , एकत्वभावम् – एकात्मभावम् – एकता के भाव को वहन्तः – धारयन्तः धारण करते हुए ।

सरलार्थ – यह भारतवर्ष अति प्रसिद्ध है । यह सदा निर्मल और ममतामयी है जहाँ धर्म – जाति की विभिन्नता होते हुए भी लोग एकता भाव को धारण करते हुए निवास करते हैं ।

विशालास्मदीया धरा भारतीया
सदा सेविता सागरै रम्यरूपा ।
वनैः पर्वतैर्निझरैर्भव्यभूति
वहन्तीभिरेषा शुभा चापगाभिः ।।

अन्वय– अस्मदीया भारतीया धरा विशाला , रम्यरूपा , शुभा भव्यभूति : ( च । एषा सामरैः , पर्वतैः , निझरे : वहन्तीभिः आपगाभिः च सदा सेविता ( अस्ति ) ।

शब्दार्थ – अस्मदीया – अस्माकम् – हमारी , भव्यभूतिः – दिव्यैश्वयां वाली । आपगाभिः नदीभिः – नदियों के द्वारा । समेषाम् – सर्वेषाम् – सभी की ।

सरलार्थ – हमारी भारत भूमि अति विशाल है , सुन्दर हैं और कल्याणकारी भव्य ऐश्वर्यवाली है । यह सागरों , पर्वतों , झरनाओं और नदियों द्वारा सदा सेवित है !

जगद्गौरवं भारतं शोभनीयं
सदास्माभिरेतत्तथा पूजनीयम् ।
भवेद् देशभक्तिः समेषां जनानां
परादर्शरूपा सदावर्जनीया ।

अन्वय – तथा शोभनीयं जगद्गौरवम् ( च ) एतत् भारतम् अस्माभिः सदा पूजनीयम् । ( अत्रत्यानाम् ) समेषां जनानां सदा आवर्जनीया परादर्शरूपा देशभक्तिः भवेत् ।

शब्दार्थ – परा – श्रेष्ठा- श्रेष्ठ , आवर्जनीया – आकर्षणीया – आकर्षण योग्य , आदर्शरूपा उदाहरणरूपा – आदर्शरूप , गीतकानि- गीतानि- गीत ।

सरलार्थ – इस तरह शोभनीय संसार के गौरवभूत यह भारतवर्ष हमलोगों द्वारा सदा पूजनीय है । यहाँ के सभी लोगों में सदा आकर्षण योग्य श्रेष्ठ आदर्शरूप देशभक्ति की भावना हो ।

पदच्छेदाः

किमकारि =किम् + अकारि
स्विदुत =स्वित् + उत
यैर्जन्म =यैः+ जन्म
भारताजिरे=भारत + अजिरे
मुकुन्दसेवौपयिकम्=मुकुन्दसेवा + औपयिकम्
धर्म – जाति – प्रभेदैरिहैकत्वभावम्=धर्म – जाति – प्रभैदैः + इह + एकत्वभावम्
विशालास्मदीया =विशाला + अस्मदीया
पर्वतैनिझरैभव्यभूतिर्वहन्तीभिरेषा =पर्वतैः + निर्झरैः – भव्यभूतिः + वहन्तीभिः + एषा
चापगाभिः =च+आपगाभिः
जगद्गौरवम् =जगत् + गौरवम्
सदास्माभिरेतत्तथा=सदा + अस्माभिः + एतत् + तथा
परादर्शरूपा = परा + आदर्शरूपा
सदावर्जनीया=सदा + आवर्जनीया
स्वर्गापवर्गास्पदमार्गभूते=स्वर्ग + अपवर्ग + आस्पदमार्गभूते

व्याकरणम्

गीतकानि =गीतम् एव गीतकम् तानि गीतकानि स्वार्थे कञ् प्रत्ययः
स्वर्गापवर्गास्पदमार्गभूते =स्वर्गस्य अपवर्गस्य च मार्गभूतः ( साधनस्वरूप 🙂 सप्तमी एकवन
अकारि=
भारताजिरे =भारतस्य अजिरे – षष्ठी तत्पुरुषः
मुकुन्दसेवौपयिकम् =मुकुन्दस्य सेवा इति मुकुन्दसेवा , तस्याः औपयिकम् उपायभूता इति मुकुन्दसेवौपयिकम् – षष्ठी तत्पुरुषः
सेविता =सेव् + क्त – टाप्
भव्यभूतिः =भव्या भूतिः यस्याः सा भव्यभूतिः
अस्मदीया=अस्मद् + छ ( ईय ) – टाप्
वहन्तीभिः=वह + शत् इति वहत् + ङीप् – वहन्ती तृतीय बहुवचनम्
शोभनीयम्=शुभ् + अनीयर
पूजनीयम्=पूज् + अनीयर्
आवर्जनीया =आङ् + वृज् + अनीयर् + टाप्
देशभक्तिः= देशाय भक्तिः – चतुर्थी तत्पुरुषः

अभ्यासः
1 . मौखिकः एकपदेन उत्तरं वदत –
( क ) के गीतकानि गायन्ति ?
( ख ) एषां कः प्रसन्नः ?
(ग)इयं निर्मला मातृभूमिः कीदृशी अस्ति ?
(घ)अस्मदीया भारतीया धरा कीदृशी अस्ति ?
( ङ ) अस्माभिः सदा किं पूजनीयम् ?

उत्तरम्-
( क ) देवाः
(ख) हरिः
(ग)वत्सला
(घ)विशाला
(ङ)भारतम्

2.स्वमातृभूमिविषये द्वे वाक्ये वदत ।
उत्तरम्-
( क ) अस्माकं मातृभूमिः विशाला , निर्मला , वत्सला चास्ति ।
(ख) अत्र सर्वेजना : एकत्वभावं बहन्तः वसन्ति ।

लिखितः
1 . एकपदेन उत्तरं लिखत –
( क ) देवा : कानि गायन्ति ?
( ख ) जनैः कीदृशं जन्म लब्धम् ?
( ग ) विशाला धरा का ?
(घ)जगद् गौरवं किं वर्तते ?
(ङ)समेषां जनानां का भवेत् ?

उत्तरम्-
( क ) गीतकानि
(ख) मुकुन्दसेवौपायिकम्
( ग ) भारतभूमिः
( घ ) भारतवर्षम्
( ङ ) देशभक्तिः

2 . पूर्णवाक्येन उत्तरं लिखत –
( क ) अस्माकं भारतीया धरा कीदृशी अस्ति ?
(ख)भारतीया धरा कैः काभिः च सेविता ?
( ग ) धर्म – जाति प्रभेदैः विभिन्नाः जनाः किं वहन्तः वसन्ति ?
(घ)के वारंवार भारते जन्म गृह्णन्ति ?
( ङ ) सर्वेषां जनानां देशभक्तिः कीदृशी भवेत् ?
(च)भारतभूमिः कीदृशी अस्ति ?
( छ ) भारताजिरे जन्म लब्धं स्पृहा केषाम् अस्ति ?

उत्तरम्-
( क ) अस्माकं भारतीया धरा निर्मला वत्सला च अस्ति ।
( ख ) भारतीया धरा सागरैः पर्वतैः निर्झरैः वहन्तीभिः अपगाभिः च सेविता ।
( ग ) धर्म – जाति प्रभेदैः विभिन्नाः जनाः एकत्वभावं वहन्तः वसन्ति ।
( घ ) देवाः वारंवारं भारते जन्म गृह्णन्ति ।
(ङ) सर्वेषां जनानां देशभक्तिः सदा आवर्जनीया परादर्शरूपा च भवेत् ।
(च)भारतभूमि : निर्मला वत्सलाच अस्ति ।
( छ ) भारताजिरे जन्म लब्धं स्पृहा देवानां अस्ति ।

3 . मञ्जूषायां लिखितपदानां समुचितप्रयोगं कृत्वा –
उदाहरणम्- अनुसृत्य पञ्च वाक्यानि रचयत –
रामेण , श्यामेन , लतया , सीतया , हिमांशुना , शिशुना , गीता , ग्रन्थः , कार्यम् , पत्रम् , रामायणम् , चित्रम् , लेखनीयम् , दर्शनीयम् , पठनीयम् , स्मरणीया , पठनीयः , करणीयम् ।
उदाहरणम् – रामेण पत्रं लेखनीयम् ।

उत्तरम्- ( क ) श्यामेन रामायणम् पठनीयम् ।
( ख ) लतया चित्रम् दर्शनीयम् ।
(ग)सीतया गीता स्मरणीया ।
( घ ) हिमांशुना कार्य करणीयम् ।
( ङ ) शिशुना ग्रंथः पठनीयः ।

4 . उदाहरणम् अनुसृत्य निम्नाङ्कितपदानां कृते विलोमपदानि लिखत-
उदाहरणम् ” धन्याः ” इतिपदस्य विलोमपदम् – अधन्याः
              उत्तरम्
प्रश्नाः
(क)सुरः               –
(ख)पूजनीयम्      –               अपूजनीयम्
( ग ) भारतीया     –               अभारतीया
(घ) शोभनम्        –                अशोभनम्
(ङ)प्रसन्न.           –                अप्रसन्न:
( च ) प्रसिद्धम्     –               अप्रसिद्धम्
( छ ) शुभा          –               अशुभा
(ज) लब्धम्         –               अलब्धम्
(झ) गौरवम्        –                अगौरवम्
(ञ) रम्यरूपा      –                अरम्यरूपा

5 . उदाहरणम् अनुसृत्य रेखाङ्कितानां स्थाने विलोमपदानां प्रयोगं कृत्वा वाक्यानि रचयत ।

उदाहरणम् – ये पुण्य कुर्वन्ति ते धन्याः भवन्ति ।
उत्तरम्
ये पापं कुर्वन्ति ते अधन्याः भवन्ति ।
( क ) ये सज्जनाः सन्ति ते शोभनं कार्य कुर्वन्ति !
(ख)पुरा गङ्गा निर्मला प्रवहति स्म ।
(ग)वाटिका सपुष्पवृक्षैः रम्या प्रतिभाति ।
( घ ) धर्मात्मा अस्मामिः पूजनीयः ।
(ङ)सद्व्यवहारेण मनसि शान्तिः प्रवर्धते ।

उत्तरम्
( क ) ये दुर्जनाः सन्ति ते अशोभनं कार्य कुर्वन्ति । ( ख ) अधुना गङ्गा मलीना प्रवहति स्म ।
( ग ) वाटिका पुष्पविहीनवृक्षैः अरम्या प्रतिभाति ।
(घ) अधर्मात्मा अस्मामिः अपूजनीयः ।
(ङ)दुर्व्यवहारेण मनसि अशान्तिः प्रवर्धते ।




योग्यताविस्तार :

अनेन पाठेन अयं सन्देश : प्रदीयते यत् चरा भारतीयाः स्वदेशं प्रति मनसा , वाचा , कर्मणा धनेन जीवनेन च निष्ठावन्तः भवेम । देशभक्तिः अस्माकं रक्तस्य कणे – कणे प्रवाहिता भवेत् । भारतमहिमा किं वा राष्ट्रमहिमा वेदेषु अपि वर्णितः । संस्कृतशिक्षकाणां सहयोगेन तान् वेदमन्त्रान् संगृह्णीयात् ।
( 1 ) राष्ट्राभिवर्धनसूक्तम् ( प्राचीनं राष्ट्रगीतम ) ॐ आ ब्रह्मन् ! ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्र राजन्यः शूर इषव्योऽतिव्याधी महारथा जायताम् , दोग्धी धेनुर्वोढाऽनड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठा सभेयो युवाऽस्य यजमानस्य वीरो जायताम् । निकामे – निकामे नः पजन्यो वर्षतु फलवत्यो न ओषधयः , पच्यन्ताम् योगक्षेमो न : कल्पताम् ।
“ मन्त्रार्थाः सिद्धयः सन्तु पूर्णाः सन्तु मनोरथाः ।
शत्रूणां बुद्धिनाशो ऽस्तु मित्राणामुदयस्तव ॥ ”

( 2 ) भारतमहिमा आधुनिकसंस्कृतसाहित्येऽपि भूरिशः प्राप्यते । तत्र स्व . वासुदेव द्विवेदिन : ” मातृभूमे नमो मातृभूमे नमः ” डा ० रमाकान्त शुक्लस्य ” भाति में भारतम् ” डा ० सतीशचन्द्र झा वर्यस्य ” राजतां मे मनसि नः प्रियं भारतम् ” डा ० वैद्यनाथ मिश्रस्य ” अखण्डं राष्ट्रदेवं स्वं नमामो भारतं दिव्यम् ” अन्येषाञ्च कवीनाम् मर्मस्पर्शिगीतानि भारतमहिमानं प्रस्तुवन्ति । एतेषां गीतानां वाचनं गायनञ्च करणीये ।

( 3 ) भारतस्य महिमानम् आधृत्य लघुनाटकस्य मञ्चनम् आयोजनीयम् ।

(4) ‘ महिमा ‘ महिमन् शब्दस्य प्रथमा विभक्तेः एकवचनस्य रूपं वर्तते । संस्कृते महिमन् पुल्लिंगे भवति । एतस्य रूपाणि निम्नलिखितानि सन्ति ।

                     एकवचन       द्विवचन       बहुवचन

प्रथमा          महिमा         महिमानी       महिमानः   द्वितीया        महिमानम्     महिमानो        महिम्नः    तृतीया           महिम्ना      महिमभ्याम्     महिमभिः       चतुर्थी          महिम्ने      महिमभ्याम्        महिमभ्यः   पञ्चमी        महिम्नः        महिमभ्याम्     महिमभ्यः  षष्ठी            महिम्नः         महिम्नोः         महिम्नाम   सप्तमी   महिमनि ,महिम्नि     महिानोः        महिमसु सम्बोधन.   हे महिमन्     हे महिमानी      हे महिमानः

एवमेव गरिमन् ( गरिमा ) लघिमन् ( लघिमा ) अणिमन् ( अणिमा ) प्रभृतिशब्दानां रूपाणि भवन्तिा ।। 

1 Comment

Leave a Comment

image
error: Content is protected !!