10th sanskrit

bseb class 10th sanskrit book | विश्वशान्तिः

विश्वशान्तिः

bseb class 10th sanskrit

class – 10

subject – sanskrit

lesson 13 – विश्वशान्तिः

SabDekho.in

विश्वशान्तिः

[ पाठेऽस्मिन् संसारे वर्तमानस्य अशान्तिवातावरणस्य चित्रण तत्समाधानोपायश्च निरूपितौ । देशेषु आन्तरिकी वाया च अशान्तिः वर्तते । तामुपेक्ष्य न कश्चित् स्वजीवनं नेतुं समर्थः । सेवम् अशान्तिः सार्वभौमिकी वर्तते इति दुःखस्य विषयः । सर्वे जनाः तया अशान्या चिन्तिताः सन्ति । संसारे तन्निवारणाय प्रवासाः क्रियन्ते ।। ]

वर्तमाने संसारे प्रायशः सर्वेषु देशेषु उपद्रवः अशान्तिर्वा दृश्यते । क्वचिदेव शान्त वातावरणं वर्तते । क्वचित् देशस्य आन्तरिको समस्यामाश्रित्य कलहो वर्तते , तेन शत्रुराजानि मोटगानानि कलई वर्धयन्ति । क्वचित् अनेकेषु राज्येषु परस्परं शीतयुद्धं प्रचलति । वस्तुतः संसारः अशान्तिसागरस्य कूलमध्यासीनो दृश्यते । अशान्तिश्च मानवताविनाशाय कल्पते । अन विश्वविध्वंसकान्यस्त्राणि बहून्याविकृतानि सन्ति । तैरेव मानवतानाशस्य भयम् ।

शब्दार्थ :-वा – अथवा अथवा , आश्रित्य अवलम्ब्य सहारा लेकर , मोदमानानि प्रसन्नानि आनन्दित , कलहम् – विकादम् – झगड़ा , वर्धयन्ति बढ़ाते हैं . शीतयुद्धम् प्रच्छन्नमुद्ध – शीतयुद्ध , कूलम् – तटम् – किनारा , विध्वंसकानि – नाशकानि – नाट करने वाले ।

सरलार्थ: वर्तमान संसार में प्राय : सभी देशों में उपद्रव और अशांति देखे जाते हैं । बिरले हो कहीं शान्तिमय वातावरण है । कहीं देश की आन्तरिक समस्याओं को लेकर कलह है जिससे शत्रु राज्य आनन्दित होकर कला बढ़ाते हैं । कहीं अनेक राज्यों में आपस में शीतयुद्ध चल रहा है । वस्तुतः अशान्त सागर के दोनों किनारों के बीच स्थित लग रहा है । अशाति मानवता के विनाश । के लिये होता है । आज विश्व को नष्ट करने वाले अनेक अरबों का आविश्कार हो चुका है । इससे मानवता के विनाश का भय उत्पन्न हो गया है ।

अशान्तेः कारणं तस्याः निवारणोपायश्च सावधानतया चिन्तनीयौ । कारणे ज्ञाते निवारणास्य उपायोऽपि ज्ञायते इति नीतिः । वस्तुतः द्वेषः असहिष्णुता च अशान्तेः कारणद्वयम् । एको देशः अपरस्य उत्कथं दृष्ट्वा द्वेष्टि , तस्य देशस्य उत्कर्यनाशाय निरन्तरं प्रवतते । द्वेषः एव असहिष्णुतां जनयति । इमी दोषी परस्परं वैरमुत्पादयतः । स्वार्थश्च वैरं प्रवर्धयति । स्वार्थप्रेरितो जनः अहंभावेन परस्य धर्म जाति सम्पत्ति क्षेत्रं भाषां वा न सहते । आत्मन एव सर्वमुत्कृष्टमिति मन्यते । राजनीतिज्ञाश्च अत्र विशेषेण प्रेरकाः । सामान्यो जनः न तथा विश्वसनपि बलेन प्रेरितो जायते । स्वार्थोपदेशः बलपूर्वक निवारणीयः । परोपकारं प्रति यदि प्रवृत्तिः उत्पाद्यते तदा सर्वे स्वार्थ त्यजेयुः । अत्र महापुरुषा : विद्वांसः चिन्तकाश्च न विरलाः सन्ति । तेषां कर्तव्यमिदं यत् जन – जने , समाजे – समाजे , राज्ये – राज्ये च परमार्थ वृत्तिं जनयेयुः ।

शब्दार्थ : निवारणम् – दूरीकरणम् – दूर करना ( हटाना ) , असहिष्णुता – परस्य उत्कर्ण प्रति ईष्या – दूसरे की उन्नति न सहना , विरलाः – अल्पाः – बहुत कम ।

सरलार्थ : अशान्ति के कारण और उसके निवारण के उपायों को सतर्कतापूर्वक सोचना चाहिए । कारण ज्ञात हो जाने पर निवारण का उपाय ज्ञात हो जाता है , ऐसी नीति है । वस्तुतः द्वेष और दूसरों की उन्नति न सहन करना अशान्ति के दो कारण है । एक देश दूसरे उन्नति को देख जलता है , द्वेष करता है , उस देश की उन्नति नष्ट करने के लिए निरन्तर प्रय्तन हैं और स्वार्थ वैर में अभिवृद्धि करता है  । द्वेष ही असहिष्णुता को जन्म देता है । ये दोनों द्वेष आपस में वैर उत्पन्न करते हैं और स्वार्थ वैर में अभिवृद्धि करता है ।स्वार्थ प्रेरित लोग अहंकार की भावना से दूसरे के धर्म , जाति , सम्पत्ति , क्षेत्र आदि को नहीं सहन करता है । अपनी ही तरह उन्नति चाहता है । राजनीतिज्ञ इसके लिए विशेष रूप से प्रेरक हैं । सामान्य लोग वैसा नहीं विश्वास करते हुए बल से प्रेरित हो जाता है । स्वार्थ की बातों को बलपूर्वक दूर करना चाहिए । परोपकार के प्रति यदि भावना हो तो सभी स्वार्थ को छोड़ दे । यहाँ महापुरुष , विद्वान और चिन्तकों की कमी नहीं है । उनका यह कर्त्तव्य है कि वे लोगों में , समाजों में और राज्यों में परमार्थ की भावना जागृत करें ।

शुष्कः उपदेशश्च न पर्याप्तः , प्रत्युत तस्य कार्यान्वयनञ्च जीवनेऽनिवार्यम् । उक्तञ्च – ज्ञानं भारः क्रियां विना । देशानां मध्ये च विवादान् शमयितुमेव संयुक्तराष्ट्रसंघप्रभृतयः संस्थाः सन्ति । ताश्च काले – काले आशङ्कितमपि विश्वयुद्धं निवारयन्ति । भगवान् बुद्धः पुराकाले एव वैरेण वैरस्य शमनम् असम्भवं प्रोक्तवान् । अवरेण करुणया मैत्रीभावेन च वरस्य शान्तिः भवतीति सर्वे मन्यन्ते । भारतीयाः नीतिकाराः सत्यमेव उद्घोषयन्ति –

शब्दार्थ : प्रत्युत – अपितु – बल्कि , शमयितुम् – शान्तं कर्तुम् – शान्त करने के लिए प्रभृतयः – इत्यादयः – इत्यादि , पुराकाले – प्राचीनकाले – पुराने समय में , करुणया – दयया दया से ।

सरलार्थ : और सूखा उपदेश ही पर्याप्त नहीं , प्रत्युत उसका कार्यान्वयन जीवन में अनिवार्य है । कहा गया है बिना कार्य के ज्ञान भार स्वरूप होता है । देशों के बीच विवादों को शान्त करने के लिए ही संयुक्त राष्ट्रसंघ आदि संस्थाएँ हैं । उसने समय – समय पर विश्वयुद्ध की आशंका को दूर किया है । प्राचीन काल में भगवान बुद्ध ने वैर का शमन वैर से असंभव कहा था । निर्वैर , करुणा और मैत्री की भावना से वैर का शमन हो सकता है , इसे सभी मानते हैं । भारतीय नीतिकारों ने सच ही कहा है -.

अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥

शब्दार्थ : लघुचेतसाम् – क्षुद्रचित्तानाम् – छोटे चित्त वालों का । निजः – स्वकीयः – अपना , वसुधा – पृथ्वी – धरती ।

सरलार्थ : यह अपना है , यह दूसरे का ऐसी गणना क्षुद्रबुद्धि के लोग करते हैं । उदार हृदय वालों के लिए तो यह समस्त पृथ्वी ही परिवार है ।

परपीडनम् आत्मनाशाय जायते , परोपकारश्च शान्तिकारणं भवति । अद्यापि परस्य दशस्य संकटकाले अन्ये देशाः सहायताराशिं सामग्रीं च प्रेषयन्ति इति विश्वशान्तेः सूर्योदयो दृश्यते ।

शब्दार्थ : निरन्तरम् – सततम् – हमेशा ( लगातार ) , अध्यासीन : – स्थितः – विराजमान ।

सरलार्थ : दूसरों के दुःख पहुँचाना आत्मनाश के लिए होता है , परोपकार शान्ति का कारण होता है । आज भी दूसरे देश के संकट के समय में दूसरे देश सहायता राशि और सामान भेजते हैं , जो विश्व शान्ति की दिशा में सूर्योदय के समान है ।

सन्धिविच्छेदः

अशान्तिवा =अशान्ति : + वा
क्वचिदेव =क्वचित् + एव
अशान्तिश्च=अशान्तिः + च
विश्वविध्वंसकान्यस्त्राणि =विश्वविध्वंसकानि + अस्त्राणि
बहून्याविष्कृतानि=बहूनि + आविष्कृतानि
तैरेव=तै : + एवं
निवारणोपायश्च=निवारण + उपाय : + च
उपायोऽपि =उपाय : + अपि
स्वार्थश्च=स्व + अर्थः + च
विश्वसन्नपि =विश्वसन् + अपि
परोपकारम्=पर + उपकारम्
कार्यान्वयनञ्च =कार्यान्वयनम् + च
जीवनेऽनिवार्यम् =जीवने + अनिवार्यम्
क्तज्व =उक्तम् + च
भवतीति =भवति + इति
वेति = वा + इति
वसुधैव =वसुधा + एवं
अद्यापि =अद्य + अपि
परोपकारश्च =पर + उपकार : + च

समासः

अशान्तिः =न शान्तिः ( नज् समास 🙂
महापुरुषः=महान चासौ पुरुषः ( कर्मधारयः )
शत्रुराज्यानि =शत्रो : राज्यानि ( षष्ठी तत्पुरुषः )
अशान्तिसागरः =अशान्तेः सागरः ( षष्ठी तत्पुरुषः )
शीतयुद्धम्=शीतं ( प्रच्छन्न ) च तद् युद्धम् ( कर्मधारयः )
स्वार्थोपदेशः =स्वार्थस्य उपदेशः ( पष्ठी तत्पुरुषः )
परोपकार : =परस्य उपकारः ( षष्ठी तत्पुरुषः )
विश्वशान्तिः =विश्वस्य शान्तिः ( यष्टी तत्पुरुषः )
असम्भवम्=न सम्भवम् ( नञ् समासः )
स्वार्थप्रेरितः =स्वार्थेन प्रेरित : ( तृतीया तत्पुरुषः )
सूर्योदय : =सूर्यस्य उदयः ( षष्ठी तत्पुरुषः )
परपीडनम् =परस्य पीडनम् ( षष्ठी तत्पुरुषः )
मानवताविनाशाय =मानवतायाः विनाशः , तस्मै ( षष्ठी तत्पुरुषः )
बलपूर्वकम् =बलं पूर्व यस्य तथाभूतम् – बहुव्रीहिः ( क्रियाविशेषण )

प्रकृतिप्रत्ययविभागः

आश्रित्य =आ + श्रि + ल्यप्
दृष्ट्वा =दृश् + त्वा
उत्कृष्टम् =उत् + कृष् + क्त
उक्तम् =वच् + क्त
शमयितुम् =शम + णिच् + तुमुन्
शमनम् =शम् + ल्युट्
नीतिः = नी + क्तिन्
शान्तिः =शम् + क्तिन्
उत्कर्षः =उत् + कृष् + घञ्
भयम् = भी + अच्
प्रेरितः =प्र + ईर् + क्त
भारः=भृ+घञ्

अभ्यासः

मौखिकः

1 . एकपदेन उत्तरं वदत –

( क ) शत्रुराज्यानि किं वर्धयन्ति ?
(ख)अनेकेषु राज्येषु परस्परं किं प्रचलति ?
( ग ) सर्वे किं त्यजेयुः ?
( घ ) वैरेण कस्य शमनम् असम्भवम् ?
(ङ)क्रियां विना कि भारः ?

उत्तरम्– ( क ) कलहम्
( ख ) शीतयुद्धम्
(ग)स्वार्थम्
( घ ) वैरस्य
(ङ)ज्ञानम्

2. निम्नलिखितानां पदानां प्रकृतिप्रत्ययविभागं वदत –

नीतिः , उक्तम् दृष्ट्वा , शमनम् , आश्रित्य

उत्तरम्– नीतिः =नी + क्तिन्
उक्तम् =वच् + क्त
दृष्ट्वा= दृश् + त्वा
शमनम्= शम् + ल्युट्
आश्रित्य = आ + थि + ल्यप्

लिखितः 1 . अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
( क ) अशान्तिसागरस्य कूलमध्यासीनः कः दृश्यते ? ( ख ) अद्य विध्वंसकानि कानि आविष्कृतानि सन्ति ? ( ग ) अशान्ते : कारणद्वयं किम अस्ति ?
( घ ) असहिष्णुतां क : जनयति ?
(ङ)कः बलपूर्वक निवारणीयः ?

उत्तरम्
(क)अशान्तिसागरस्य कूलमध्यासीनः संसार : दृश्यते ।
(ख) अद्य विध्वंसकानि अस्वाणि आविष्कृतानि सन्ति। ( ग ) अशान्तेः कारणद्वयं द्वेषः असहिष्णुता च अस्ति । ( घ ) असहिष्णुतां द्वेषः जनयति ।
( ङ ) स्वार्थोपदेशः बलपूर्वक निवारणीयः ।

2 . अधोलिखितपदानां स्ववाक्येषु संस्कृते प्रयोगं कुरुत –

अयम् , अशान्तिः , मैत्री , उत्कर्षम् , प्रेरकः , परोपकारः ।
उत्तरम्-
अयम् – अयम् बालक : चञ्चलः अस्ति ।
अशान्ति : -मम मनः अधुना अशान्तिः वर्तते ।
मैत्री- भारत चीन मध्ये मैत्री अस्ति ।
उत्कर्षम् – सः मम् उत्कर्ष दृष्ट्वा द्वेष्टि ।
प्रेरक : – राजनीतिज्ञः स्वार्थ प्रेरकः भवति । परोपकारः- परोपकारः शान्तिकारकं भवति ।

3 . सन्धिविच्छेदं कुरुत –
परोपकारः , निवारणोपायश्च , विश्वसन्नपि , उक्तञ्च , भवतीति , वसुधैव , जीवनेऽनिवार्यम् ।
उत्तरम्

परोपकारः-पर + उपकारः ।
निवारणोपायश्च -निवारण – उपायः ।
विश्वसन्नपि – विश्वसन् + अपि ।
उक्तञ्च – उक्तम् + च ।
भवतीति भवति इति ।
वसुधैव- वसुधा + एव ।
जीवनेऽनिवार्यम् – जीवने – अनिवार्यम् ।

4. अधोलिखितेषु वाक्येषु रेखाडितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत –
(क)कारणे जाते निवारणस्य उपायोऽपि जायत ।
(ख)सर्वेषु देशेषु अशान्तिः दृश्यते ।
(ग) स्वार्थः वैरं प्रवर्धयति ।
(घ) राजनीतिज्ञाः अत्र विशेषेण प्रेरकाः ।
(ङ) सामान्यो जनः न तथा विश्वसनपि वलेन प्रेरितो जायते ।
उत्तरम्
(क)कारणे ज्ञाते कस्य उपायोऽपि ज्ञायते ?
(ख)सर्वेषु देशेषु क : दृश्यते ?
(ग) स्वार्थः कं प्रवर्धयति ?
(घ)के अत्र विशेषेण प्रेरकाः ?
(ङ) सामान्यो जनः न तथा विश्वसन्नपि केन प्रेरितो जायते ?

5.अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं कुरुत –
उक्तम् , नीतिः , भारः , शमनम् , शान्तिः , आश्रित्य
उत्तरम्
उक्तम्- वच् + क्त
नीतिः-नी + क्तिन्
भारः- भू + घञ्
शमनम् – शम् + ल्युट्
शान्तिः -शम् + क्तिन
आश्रित्य- आ + श्रि + ल्यप्

6.अधोलिखितपदेषु मूलशब्दं विभक्तिं वचनं च लिखत –
अशान्तेः , बलेन , महापुरुषाः , वैरस्य , दोषौ , अपरस्य , संकटकाले ।
उत्तरम्-
मूलशब्द.       विभक्तिं           वचनं अशान्तेः      अशान्त            षष्ठी          एकवचन बलेन           बल                तृतिया       एकवचन महापुरुषाः   महापुरुष.         प्रथमा       बहुवचन
वैरस्य           वैर                  षष्ठी          एकवचन दोषौ            दोष                प्रथमा        द्विवचन      अपरस्य       अपर                षष्ठी         एकवचन संकटकाले   संकटकाल        सप्तमी      एकवचन




7.अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत –

उदाहरणम् —  एकवचने – महापुरुषः अस्ति ।
बहुवचने – महापुरुषाः सन्ति ।
(क)विद्वान् कथयति ।
(ख) जनः जानाति ।
(ग)भारतीय : नीतिकारः उद्घोषयति ।
(घ) देशः प्रेषयति ।
(ङ)सः उत्कृष्ट मन्यते ।
(च) त्वं कुत्र गच्छसि।

उत्तरम्– ( क ) विद्वांसः कथयन्ति ।
( ख ) जना : जानन्ति ।
( ग ) भारतीय नीतिकाराः उद्घोषयन्ति ।
(घ) देशाः प्रेषयन्ति ।
(ङ)ते उत्कृष्टं मन्यते ।
(च) यूयम् कुत्र गच्छथ ।

8- मेलनम् कुरुत-

उत्तरम्-
क               ख
स्वार्थः         परमार्थः
बलम्          निर्बलम्
सामान्य       विशेष :
उत्कर्षः      अपकर्षः
द्वेषः            मित्रता
शीतम्         उष्णम्
विध्वंसम्      निर्माणम्

9 . कोष्ठान्तर्गताना शब्दानां साहाय्येन रिक्तस्थानानि पूरयत –
( क्वचिदपि , वैरस्य , विरलाः , सावधानतया , पर्याप्तः )
( क ) अशान्ते : कारणं तस्याः निवारणोपायश्च चिन्तनीयौ ।
(ख)अवैरण करुणया मैत्रीभावेन च …….. शान्तिः भवति ।
(ग) अत्र महापुरुषाः …………… सन्ति ।
( घ ) शुष्क : उपदेशः न ……. ।
(ङ) ………….. शान्तं वातावरणं वर्तते ।

( क ) अशान्तेः कारणं तस्याः निवारणोपायश्च सावधानतया चिन्तनीयौ ।
(ख)अवैरण करुणया मैत्रीभावेन च वैरस्य शान्तिः भवति ।
( ग ) अत्र महापुरुषाः विरलाः सन्ति ।
(घ)शुष्कः उपदेशः न पर्याप्तः ।
(ङ)क्वचिदपि शान्तं वातावरणं वर्तते ।

                       योग्यताविस्तार :

पठितपाठेन विश्वशान्तये जनजागरणं कर्तुं प्रयासः कृतः । अस्य पाठस्य सन्देशः अयमेव अस्ति यत् शान्त्या एव विश्वकल्याणं भवेत् । किन्तु नानाकारणैः सम्प्रति संसारे अशान्तिः अनुभूयते । द्वेष : असहिष्णुता , अविश्वासः , असंतोषः , स्वार्थः चादयः दुर्गुणाः प्रवृद्धाः सन्ति । ततः कुतः शान्तिः ? शान्तिः भारतीयदर्शनस्य मूलतत्त्वमस्ति । इयं शान्तिः धर्ममूला चास्ति । ” धर्मो रक्षति रक्षितः ” इति प्राचीनः सन्देश : विश्वस्य अस्तित्व – रक्षणाय प्रेरयति । धर्मस्य दश लक्षणानि सन्ति – धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥

                 क्रियानुशीलनम्

आगच्छन्तु ! वयं सर्वे शिक्षकाः छात्राश्च
समये – समये किमपि किमपि कुर्याम !

(क) इतिहासशिक्षकस्य सहयोगेन प्रथमविश्वयुद्धस्य द्वितीय विश्वयुद्धस्य च पृष्ठभूमिं जानीयाम , तयोः दुष्परिणामान् अवगच्छाम ।

(ख) आधुनिकसमये विविधस्तरेषु अशान्तेः यद् वातावरण निर्मीयमाणं दृश्यते , तस्य कारणानि परिस्थितिञ्च अवगच्छाम ।

(ग)अस्माभिः समाजस्तरे जातिभेदस्य , सम्प्रदायभेदस्य , धर्मभेदस्य , वर्गभेदस्य , क्षेत्रभेदस्य च आधारेण जायमानानाम् अशान्तिकारणानां
निराकरणाय प्रेरकाः कार्यक्रमाः आयोजनीयाः ।

1 Comment

  • बहुत अच्छा है सारे उतर मिल जा रहे हैं धन्यवाद

Leave a Comment

error: Content is protected !!