10th sanskrit

Bihar board 10th class sanskrit notes – पाटलिपुत्रवैभम्

Bihar board 10th class sanskrit notes – पाटलिपुत्रवैभम्

Bihar board 10th class sanskrit notes

वर्ग – 10

विषय – संस्कृत

पाठ 2 – पाटलिपुत्रवैभवम्

पाटलिपुत्रवैभवम्

SabDekho.in

[विहारराज्यस्य राजधानीनगरं पाटलिपुत्रं सर्वेषु कालेषु महत्वमधारयत् ।अस्येतिहासः सार्धसहस्रद्वयवर्षपरिमितः वर्तते। अत्र धार्मिकक्षेत्रं राजनीतिक्षेत्रम्  उद्योगक्षेत्रं च विशेषेण ध्यानाकर्षकम्। वैदेशिकाः यात्रिणः मेगास्थनीज-
फाह्यान-ह्वेनसांग-इत्सिंगप्रभृतयः पाटलिपुत्रस्य वर्णनं स्व-स्व संस्मरणग्रन्थेषु चक्रुः। पाठेऽस्मिन् पाटलिपुत्रवैभवस्य सामान्यः परिचयो वर्तते।]

प्राचीनेषु भारतीयेषु नगरेष्वन्यतमं पाटलिपुत्रमनुगऊँ वसद्विचित्रं महानगरं बभूव।
तद्विषये दामोदरगुप्तो नाम कवि: कुट्टनीमताख्ये काव्ये कथयति-
शब्दार्थ-अन्यतमम् – एकतमम् – एक ।

व्याकरण -नगरेष्वन्यतमम् – नगरेषु + अन्यतमम्, वसद्विचित्रम् – वसत् + विचित्रम्, गङ्गायास्तीरे – गङ्गायाः + तौरे ।

सरलार्थ : – प्राचीन भारतीय नगरों में एक पाटलिपुत्र गंगा नदी के किनारे अवस्थित अद्भुत
महानगर हुआ । इसके विषय में दामोदर गुप्त नामक कवि कुट्टनीमत नामक काव्य में कहा है-

अस्ति महीतलतिलकं सरस्वतीकुलगृहं महानगरम् ।
नाम्ना पाटलिपुत्रं परिभूतपुरन्दरस्थानम् ॥

शब्दार्थ-
मही – पृथ्वी – धरती, पुरन्दरः – इन्द्रः!

सरलार्थ : – पृथ्वी के तिलकभूत विद्वानों का कुलगृहभूत इन्द्रालय को भी जीतने वाला पाटलिपुत्र
नाम का नगर है। इतिहासे श्रूयते यत् गङ्गायास्तीरे बुद्धकाले पाटलिग्नामः स्थितः आसीत् । यत्र च
भगवान् बुद्धः बहुकृत्वः समागतः । तेन कथितमासीत् यद् ग्रामोऽयं महानगरं भविष्यति किन्तु कलहस्य अग्निदाहस्य जलपूरस्य च भयात् सर्वदाक्रान्तं भविष्यति । कालान्तरेण पाटलिग्रामः एव पाटलिपुत्रमिति कथितः । चन्द्रगुप्तमौर्यस्य काले अस्य नगरस्य शोभा रक्षाव्यवस्था च अत्युत्कृष्टासीदिति यूनानराजदूतः मेगास्थनीजः स्वसंस्मरणेषु निरूपयति । अस्य नगरस्य वैभवं प्रियदर्शिनः अशोकस्य समये सुतरां समृद्धम् ।

शब्दार्थ  -बहुकृत्वः- बहुशः कृत्वा अनेक बार, आगतः –
आगच्छत् – आया, आक्रान्तम् – संक्रान्तम् – घिरा । उत्कृष्टा – प्रकृष्टा – अच्छी, सुतराम् – अत्यधिकम्-
और अधिक,

व्याकरण  -समागतः – सम् + आगतः, ग्रामोऽयम् – ग्रामः + अयम्, सर्वदाक्रान्तम् – सर्वदा + आक्रान्तम्, कालान्तरेण – काल + अन्तरेण,
अत्युप्कृष्टासीदिति – अति + उत्कृष्टा + आसीत्
इति I

सरलार्थ : इतिहास से ज्ञात होता है कि बुद्ध के समय में गंगा नदी के किनारे पाटलिग्राम
अवस्थित था । यहाँ भगवान बुद्ध अनेक बार आए । उन्होंने कहा था कि यह नगर महानगर होगा।
लेकिन कलह, आग और बाढ़ से सदा घिरा रहेगा । कालान्तर में पाटलिग्राम को ही पाटलिपुत्र
कहा गया । चन्द्रगुप्त मौर्य के समय में इस नगर की शोभा और सुरक्षा प्रबन्ध अति उत्तम था,
यह बात यूनानी राजदूत मेगास्थनीज ने अपने यात्रावृत्तांत में लिखा है । इस नगर का वैभव प्रियदर्शी
अशोक के समय और अधिक समृद्ध था ।

बहुकालं पाटलिपुत्रस्य प्राचीना सरस्वतीपरम्परा प्रावर्तत इति राजशेखरः स्वकाव्यमीमांसा-
नामके कविशिक्षाप्रमुखे ग्रन्थे सादरं स्मरति

शब्दार्थ-
प्रावर्तत – प्रचलिता – चलती थी।
व्याकरण-सादरम् स + आदरम्

सरलार्थ : पाटलिपुत्र की विद्वत्परम्परा प्राचीनकाल से है ऐसा राजशेखर ने अपनी काव्यमीमांशा नामक कवि शिक्षा पुस्तक में सादर स्मरण किया है ।

अत्रोपवर्षवर्षाविह पाणिनिपिङ्गलाविह व्याडिः ।
वररुचिपतञ्जली इह परीक्षिताः ख्यातिमुपजग्मुः ।।

व्याकरण -अनोपवर्षवर्षाविह – अत्र + उपवर्षवर्षों + इह, पाणिनिपिडलाविह – पाणिनिपिडलौ + इह ।

सरलार्थ : यहाँ (पाटलिपुत्र) में वर्षों तक पाणिनि, पिङ्गल, व्याडि, वररूचि, पतञ्जलि परीक्षित होते हुए प्रसिद्धि को प्राप्त किए । कतिपयेषु प्राचीनसंस्कृतग्रन्थेषु पुराणादिषु पाटलिपुत्रस्य नामान्तरं पुष्पपुरं कुसुमपुर वा प्राप्यते । अनेन ज्ञायते यत् नगरस्यास्य समीपे पुष्पाणां बहुलमुत्पादनं भवति स्म । पाटलिपुत्रमिति शब्दोऽपि पाटलपुष्पाणां पुत्तलिकारचनामाश्रित्य प्रचलितः । शरत्काले नगरेऽस्मिन् कौमुदीमहोत्सवः इति महान् समारोहः गुप्तवंशशासनकाले अतीव प्रचलितः । तत्र सर्वे जनाः
आनन्दमग्नाः अभूवन् । सम्प्रति दुर्गापूजावसरे तादृशः एव समारोहः दृश्यते ।

शब्दार्थ -नामान्तरम् – अन्यत् नाम – दूसरा नाम ।
व्याकरण-नगरस्यास्य – नगरस्य + अस्य, पुष्पाश्रिताः – पुष्प + आश्रिताः, उत्सवाश्च – उत्सवाः + च । नगरेऽस्मिन् – नगरे + अस्मिन् ।

सरलार्थ :
कुछ संस्कृत पुस्तकों और पुराणों में पाटलिपुत्र का दूसरा नाम पुष्पपुर या कुसुमपुर मिलता है । इससे ज्ञात होता है कि इस नगर के समीप फूलों का उत्पादन अधिक होता था । पाटलिपुत्र यह शब्द भी पाटल पुष्पों की पंखुरियों का आश्रय लेकर प्रचलित हुआ । शरत्काल में इस नगर में कौमुदी महोत्सव नामक महान् समारोह गुप्तवंश के शासनकाल में अत्यंत प्रचलित था । इसमें सभी लोग आनन्दमग्न रहते थे । आजकल दुर्गापूजा उसी सप्रकार का एक समारोह
यहाँ देखा जाता है।

कालचक्रवशाद् यद्यपि मध्यकाले पाटलिपुत्रं वर्षसहस्रपरिमितं जीर्णतामन्वभूत् । तस्य
सङ्केतः अनेकेषु साहित्यग्रन्थेषु मुद्राराक्षसादिषु लभ्यते । मुगलवंशकाले अस्य नगरस्य समुद्धारो
जातः । आंग्लशासनकाले च पाटलिपुत्रस्य सुतरां विकासो जातः । नगरमिदं मध्यकाले एव पटनेति नाना प्रसिद्धिभगात् । अयं च शब्दः पत्तनमिति शब्दात् निर्गतः । नगरस्य पालिका देवी पटनदेवीति अद्यापि पूज्यते ।

व्याकरण -शब्दोऽपि – शब्द: – अपि, पटनेति पटना । इति, निर्गतः – निः + गतः ।

सरलार्थ :
समय परिवर्तन के कारण यद्यपि मध्यकाल में पाटलिपुत्र हजार वर्ष तक लगभग
जीर्णता अर्थात् श्रीहीनता में रहा । इसका संकेत अनेक साहित्यिक ग्रन्थों मुद्राराक्षस आदि में मिलता
। मुगलवंश के शासन काल में इस नगर का पुनरुद्धार हुआ । अंग्रेजों के शासनकाल में पाटलिपुत्र
का अच्छा विकास हुआ । मध्यकाल में ही इस नगर का नाम पटना प्रसिद्ध हो गया था । यह शब्द ‘पत्तन’ शब्द से निर्गत है । आज भी नगर की देवी पटनदेवी पूजित है ।

सम्प्रति पाटलिपुत्रम् ( पटना नाम नगरम् ) अति विशालं वर्तते बिहारस्य राजधानी । अनुदिनं नगरस्य विस्तारः भवति । अस्योत्तरस्यां दिशि गङ्गा नदी प्रवहति । तस्या उपरि गाँधीसेतुर्नाम एशियामहादेशस्य दीर्घतमः सेतुः किञ्च रेलयानसेतुरपि निर्मीयमानो
वर्तते । नगरेऽस्मिन् उत्कृष्टः संग्रहालयः उच्चन्यायालयः सचिवालयः, गोलगृहम्, तारामण्डलम्,
जैविकोद्यानम्, मौर्यकालिकः अवशेषः, महावीरमन्दिरम् इत्येते दर्शनीयाः सन्ति । प्राचीनपटनानगरे सिखसम्प्रदायस्य पूजनीयं स्थलं दशमगुरोः गोविन्दसिंहस्य जन्मस्थानं गुरुद्वारेति नाम्ना प्रसिद्ध वर्तते । तत्र देशस्यास्य तीर्थयात्रिणः दर्शनार्थमायान्ति ।

व्याकरण–  अस्योत्तरस्याम् – अस्य + उत्तरस्याम्, गाँधीसेतुर्नाम – गाँधीसेतुः + नाम,
किञ्च – किम् + च, रेलयानसेतुरपि – रेलयानसेतुः + अपि, नगरेऽस्मिन् – नगरे + अस्मिन्,
इत्येते – इति + एते, गुरुद्वारेति – गुरुद्वारा + इति, देशस्यास्य – देशस्य + अस्य ।

सरलार्थ :
आजकल पाटलिपुत्र (पटना नगर) अत्यंत विशाल है और बिहार राज्य की
राजधानी है । आए दिन नगर का विस्तार हुआ है । इसके उत्तर की ओर गंगा नदी बहती है ।
उसके ऊपर गाँधी सेतु (पुल) एशिया महादेश का सबसे बड़ा सेतु है और रेलयान सेतु भी
निर्माणाधीन है । इस नगर में उत्कृष्ट संग्रहालय, उच्च न्यायालय, सचिवालय, गोलघर, तारामंडल,
जैविकोद्यान, मौर्यकालीन भग्नावशेष, महावीर मन्दिर आदि दर्शनीय हैं । प्राचीन पटना नगर में सिख
सम्प्रदाय का पूजनीय स्थान दशवें गुरु गोविन्द सिंह का जन्म स्थान गुरु द्वारा नाम से विख्यात
है । यहाँ देश भर के तीर्थयात्री दर्शन करने के लिए आते हैं ।

एवं पाटलिपुत्रं प्राचीनकालात् अद्यावधि विभिन्नेषु क्षेत्रेषु वैभवं धारयति सर्व च संकलितरूपेण संग्रहालये दर्शनीयमिति । पर्यटनमानचित्रे नगरमिदं महत्त्वपूर्णम् ।

शब्दार्थ
आश्रित्य – आधृत्य – आश्रय लेकर, अद्यावधि – अद्य पर्यन्तम् – आज तक ।
व्याकरण-अद्यावधि – अद्य + अवधि ।
सरलार्थ : इस तरह पाटलिपुत्र प्राचीन काल से आजतक विभिन्न क्षेत्रों में वैभव धारण कर
रहा है जिनका संकलित रूप में संग्रहालय में दर्शनीय है । परहिन के मानचित्र पर यह नगर एक
प्रमुख नगर है।

व्याकरण

प्रकृतिप्रत्ययविभागः
समागतः-गम् + सम् + आ + क्त
स्थितः – स्था + क्त
निर्गत: = निः + गम् + क्त
पूजनीयम्= पूज् + अनीयर्
दर्शनीयम् = दृश् + अनीयर

समासः
महानगरम्= महत् च तत् नगरम् (कर्मधारयः)
सरस्वतीकुलगृहम्= सरस्वत्याःकुलगृहम् (षष्ठी तत्पुरुषः)
महीतलतिलकम्=महीतलस्य तिलकम् (षष्ठी तत्पुरुषः)
कौमुदीमहोत्सवः=कौमुद्यां रचितः महोत्सवः (मध्यमपदलोपी समासः
गोलगृहम् = गोलं तत् च गृहम् (कर्मधारयः)
तारामण्डलम् =ताराणां मण्डलानि सन्ति यस्मिन् तत् (बहुव्रीहिः)

अभ्यासः

मौखिकः
1. पाटलिपुत्रनगरस्य विषये द्वे वाक्ये संस्कृतभाषायां वदत ।
उत्तरम्– पाटलिपुत्रनगरं अति प्राचीन नगरं वर्तते ।
अस्य नगरस्य वर्णनं साहित्य ग्रंथेषु उपलभ्यते ।
2 .अधोलिखितानां समस्तपदानां विग्रहं वदत-
सचिवालयः, गोलगृहम्, महीतलतिलकम्, महानगरम्, सरस्वतीकुलगृहम्।
उत्तरम्- सचिवालयः =सचिवानाम् आलयः (षष्ठी तत्पुरुषः)
गोलगृहम् =गोलं तत् च गृहम् (कर्मधारयः)
महीतलतिलकम् =महीतलस्य तिलकम् (षष्ठी तत्पुरुषः)
सरस्वतीकुलगृहम् =सरस्वत्याःकुलगृहम् (षष्ठी तत्पुरुषः)
महानगरम् = महत् च तत् नगरम् (कर्मधारयः)

3. सन्धि-विच्छेदं वदत
नगरेध्वन्यतमम्, ग्रामोऽयम्, कालान्तरेण, पटनेति, निर्गतः ।
उत्तरम्- नगरेष्वन्यतमम् =नगरेषु + अन्यतमम्
ग्रामोऽयम् =ग्राम: + अयम्
कालान्तरेण =काल + अन्तरेण
पटनेति= पटना + इति
निर्गतः = निः + गतः

लिखितः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) कुट्टनीमताख्यं काव्यं कस्य कवेः रचना अस्ति?
(ख) पाटलिपुत्रं कस्या: नद्या : तीरे अवस्थितमस्ति ?
(ग) चन्द्रगुप्तमौर्यस्य काले अस्य नगरस्य रक्षाव्यवस्था कीदृशी आसीत् ?
(घ) राज्ञः अशोकस्य समये अस्य नगरस्य वैभवं कीदृशम् आसीत् ?
(ड़)काव्यमीमांसानामक ग्रन्थं क: अलिखत् ?
उत्तर
( क )कुट्टनीमताख्यं काव्यं दामोदर गुप्तस्य रचना अस्ति ।
( ख )पाटलिपुत्र गङ्गा नद्याः तीरे अवस्थितमस्ति ।
(ग) चन्द्रगुप्तमौर्यस्य काले अस्य नगरस्य रक्षाव्यवस्था अत्युतकृष्टा आसीत् ।
(घ) राज्ञः अशोकस्य समये अस्य नगरस्य वैभवं सुतरां समृद्धं आसीत् ।
(ङ)काव्यमीमांसानामक ग्रन्थं राजशेखरः अलिखत् ।

2. अधोलिखितानां शब्दानां सन्धिविच्छेदं कुरुत्त-
पाणिनिपिडलाविह, अत्युत्कृष्टासीदिति, उत्सवाश्च, अस्योत्तरस्याम्, गाँधीसेतुर्नाम, नगरस्यास्य,
पुष्पाश्रिता।
उत्तरम्- पाणिनिपिडलाविह=पाणिनिपिडलो + इह
अत्युप्कृष्टासीदिति=अति + उत्कृष्टा + आसीत् + इति
उत्सवाश्च=उत्सवाः । च
अस्योत्तरस्याम्=अस्य + उत्तरस्याम्
गाँधीसेतुर्नाम=गाँधीसेतु: + नाम
नगरस्यास्य=नगरस्य + अस्य
पुष्पाश्रिताः=पुष्प+आश्रिताः

3.सन्धि कुरुत
बहुलम् + उत्पादनम्, गङ्गायाः + तीरे, नगरे – अस्मिन्, च + अस्ति, शब्दः + अपि,सर्वदा + आक्रान्तम्,
इति + एते ।
उत्तरम्- बहुलम् + उत्पादनम् =बहुलमुत्पादनम्
गङ्गायाः + तीरे=गंगायास्तीरे
नगरे + अस्मिन् = नगरेऽस्मिन्
च + अस्ति = चास्ति
शब्द: + अपि = शब्दोऽपि
सर्वदा + आक्रान्तम् – सर्वदाक्रान्तम्
इति + एते = इत्येते

4.अधोलिखितानां पदानां स्ववाक्येषु संस्कृते प्रयोगं कुरुत-
यद्यपि, सम्प्रति, अतीव, महान्, नगरम्, अत्र

उत्तरम्– यद्यपि यद्यपि सः कुरूपः अस्ति पञ्च विद्वान् अस्ति ।
सम्प्रति-सम्प्रति त्वं किं पठसि?
अतीव-पाटलिपुत्रस्य महात्मयं अतीव प्रसिद्धम् ।
महान्- देवदत्तः महान् चतुरः अस्ति ।
नगरम्-पटना नगरं गंगा तीरे अस्ति ।
अत्र-अत्र त्वं किम् करोसि?

5.रिक्तस्थानानि पूरयत –
(क) गङ्गायाः उपरि गाँधीसेतुर्नाम………… महादेशस्य दीर्घतमः सेतुः अस्ति।
(अफ्रीका / एशिया)
पाटलिपुत्रनगरे प्रसिद्ध……… अस्ति।
(गोलगृहम् / ताजमहलम्)
(ग) पाटलिपुत्रस्य नामान्तरं ………प्राप्यते। (कुसुमपुरम् । माधवपुरम्)
(घ) कौमुदीमहोत्सवः…………अतीव प्रचलितः।
(आङ्गलशासनकाले । गुप्तशासनकाले)
(ङ)पाटलिपुत्रस्य. दिशि गङ्गा नदी प्रवहति। (पूर्वस्याम् / उत्तरस्याम्)
(च)गोविन्दसिंहः सिखसम्प्रदायस्य गुरुः आसीत्। (प्रथमः / दशमः)

उत्तरम्– (क) गङ्गायाः उपरि गाँधीसेतुर्नाम एशिया महादेशस्य दीर्घतमः सेतुः अस्ति।
(ख) पाटलिपुत्रनगरे प्रसिद्धं गोलगृहम् अस्ति।
पाटलिपुत्रस्य नामान्तरं कुसुमपुरम् प्राप्यते।
(घ) कौमुदीमहोत्सवः गुप्तशासनकाले अतीव प्रचलितः।
(ङ)पाटलिपुत्रस्य उत्तरस्याम् दिशि गङ्गा नदी प्रवहति।
(च) गोविन्दसिंह: सिखसम्प्रदायस्य दशमः गुरुः आसीत्।

6.अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत-
(क) तत्र तीर्थयात्रिणः दर्शनार्थमायान्ति।
(ख)मध्यकाले पाटलिपुत्रं वर्षसहस्रपरिमितं जीर्णतामन्वभूत् ।
(ग) मुगलकाले पाटलिपुत्रस्य समुद्धारो जातः।
(घ) तत्र सर्वे जनाः आनन्दमग्नाः अभूवन्।
(ङ)तत्र भगवान् बुद्धः बहुकृत्वः समागतः।
(च) नगरस्य शोभा अशोकस्य समये सुतरां समृद्धम्।
उत्तरम्– (क) तत्र के दर्शनार्थमायान्ति ?
(ख)कस्मिन्काले पाटलिपुत्रं वर्षसहस्रपरिमितं जीर्णतामन्वभूत् ?
(ग) मुगलकाले कस्य समुद्धारो जातः ?
(घ) तत्र सर्वे जनाः के अभूवन्?
(ङ)तत्र कः बहुकृत्वः समागतः?
(च)नगरस्य शोभा कस्य समये सुतरां समृद्धम् ?

7. रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत –
(क)काले-काले उत्सवाः भवन्ति स्म।
(ख)तस्य सङ्केतः अनेकेषु ग्रन्थेषु लभ्यते।
(ग) नगरम् इदं पटनेति नाम्ना प्रसिद्धिमगात्।
(घ)कौमुदीमहोत्सव: महान् समारोहः आसीत्।
(ङ) दुर्गापूजावसरे तादृशः एव समारोह: दृश्यते।
उत्तरम्– (क) सप्तमी
(ख) षष्ठी
(ग) प्रथमा
(घ) प्रथमा
(ङ) सप्तमी

(क)स्तम्भद्वये लिखिताना शब्दानां मेलनं कुरुत-
(क).              (ख)

मही             आगच्छत्
सुतराम्         इन्द्र
पुरन्दरः         पृथ्वी
अन्यतमम्     अत्यधिकम्
उत्कृष्टा         एकतमम्
आगतः         प्रकृष्टा
उत्तरम्
(क).                      (ख)
मही                      पृथ्वी
सुतराम्                 अत्यधिकम्
पुरन्दर:                 इन्द्रः
अन्यतमम्             एकतमम्
उत्कृष्टा                प्रकृष्टा
आगतः                आगच्छत्

                   योग्यताविस्तारः

पाटलिपुत्रम् इतिहासस्य प्रारम्भिककालतः धार्मिक-सांस्कृतिक-राजनीतिक-आर्थिक-
वैदेशिक-नीतिदृष्ट्या अत्यन्तं महत्त्वपूर्ण स्थानं धत्ते। भारतस्य महान् सम्राट अशोकः अत्रैव जातः
आसीत्। तस्य सम्बन्धे इयं प्रसिद्धिः वर्तते यत् सः स्वकीयान् नवनवतिं भ्रातृन् हत्वा राजसिंहासने
समारूढ़ः। हतानां भ्रातृणां प्रक्षेपणं यस्मिन् कूपे कृतवान् आसीत् स एव कूपः अधुना “अगमकुआँ”
इति नाम्ना प्रसिद्धः।





                      क्रियानुशीलनम्

(क) पाटलिपुत्रस्य अतीतं ज्ञातुं इतिहासशिक्षकस्य सहयोगेन पाटलिपुत्रस्य सिन्हा लाइब्रेरी,
खुदाबख्श लाइब्रेरी, काशीप्रसाद जायसवाल संस्थान-गाँधीसंग्रहालय-पटना विश्वविद्यालय
पुस्तकालयप्रभृतिपुस्तकालयेषु भ्रमणं कृत्वा ऐतिहासिकतथ्यानां पुरातात्त्विकतथ्यानां च
संग्रह:करणीयः।
(ख)कुम्हरार-खगौल-तरेगना-सबलपुर-मनेर-दीघा-महेन्द्रूघाट-राजगीरादिस्थानेषु शैक्षणिकभ्रमणं
करणीयं तथा च एतेषां स्थानानाम् ऐतिहासिकतथ्यैः सह ज्योतिष-खगोल-विज्ञानसम्मततथ्यानि
संग्रहणीयानि।
(ग) संस्कृतसाहित्यस्यापि योगदाने पाटलिपुत्रस्य महत् योगदानम् अस्ति। पतञ्जलि
-कात्यायन-चाणक्य-वर्षापवर्षप्रभृतीनाम् आचार्याणां प्रशंसनीया परम्परा संस्कृतसाहित्यस्य
अनुसंधानेन ज्ञातव्या।
(घ) भारतीयस्वतन्त्रतासंग्रामस्य हुतात्मनां स्वातन्त्र्यवीराणां चित्रावली संग्रहणीया तस्याः प्रदर्शनी
च आयोजनीया।

One thought on “Bihar board 10th class sanskrit notes – पाटलिपुत्रवैभम्

  • Very helpful… Thanks

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *