10th sanskrit

bihar board class 10th sanskrit book solutions | स्वामी दयानन्दः

स्वामी दयानन्दः

image

bihar board class 10th sanskrit book solutions

class – 10

subject – sanskrit

lesson 9  – स्वामी दयानन्दः

स्वामी दयानन्दः

SabDekho.in

( आधुनिकभारते समाजस्य शिक्षायाश्च महान् उद्धारकः स्वामी दयानन्दः । आर्यसमाजनामकसंस्थायाः संस्थापनेन एतस्य प्रभूतं योगदानं भारतीयसमाजे गृह्यते । भारतवर्षे राष्ट्रीयतायाः बोधोऽपि अस्य कार्यविशेषः । समाजे अनेकाः दूषिताः प्रथाः खण्डयित्वां शुद्धतत्त्वज्ञानस्य प्रचारं दयानन्दः अकरोत् । अयं पाठः स्वामिनो दयानन्दस्य परिचयं तस्य समाजोद्धरणे योगदानं च निरूपयति । )

मध्यकाले नाना कुत्सितरीतयः भारतीयं समाजम् अदूषयन् । जातिवादकृतं वैषम्यम अस्पृश्यता , धर्मकार्येषु आडम्बरः , स्त्रीणामशिक्षा , विधवानां गर्हिता स्थितिः , शिक्षाया अव्यापकता इत्यादयः दोषाः प्राचीनसमाजे आसन् । अतः अनेके दलिता : हिन्दुसमाजं तिरस्कृत धर्मान्तरणं स्वीकृतवन्तः । एतादृशे विषमे काले ऊनविंशशतके केचन धर्मोद्धारकाः सत्यान्वेषिणः समाजस्य वैषम्यनिवारकाः भारते वर्षे प्रादुरभवन् । तेषु नूनं स्वामी दयानन्दः विचाराणा व्यापकत्वात् समाजोद्धरणस्य संकल्पाच्च शिखर- स्थानीयः ।

शब्दार्थ – अदूषयन् दूषितं कृतवन्तः – दूषित किया , वैषम्यम् – असमानता – विषमता गर्हिताः – निकृष्टा – निन्दित , निवारकाः अपहारकाः – दूर करनेवाले ।

सरलार्थ : मध्यकाल में अनेक निन्दनीय कुरीतियों ने भारतीय समाज को दूषित किया जातिवाद कृत विषमता , अस्पृश्यता , धार्मिक कार्यों में आडम्बर , स्त्रियों में अशिक्षा , विधवाओं की निन्दित स्थिति , शिक्षा की अव्यापकता आदि दोष प्राचीन समाज में थे । अतएव अनेक दलित वर्ग के लोगों ने हिन्दू समाज को छोड़कर दूसरे धर्म को स्वीकार किया । इस तरह की विषम परिस्थितियों 19 वीं शताब्दी में कुछ समाजोद्वारक , सत्यान्वेषी , समाज की विषमता को दूर करने वाले भारतवर्ष में प्रादुर्भाव हुआ । उनमें निश्चय ही स्वामी दयानन्द के विचारों की व्यापकता और समाजोद्धार का संकल्प सर्वोच्च है ।

स्वामिनः जन्म गुजरातप्रदेशस्य टंकारानामके ग्रामे 1824 ईस्वी वर्षेऽभूत् । बालकस्य नाम मूलशङ्करः इति कृतम् । संस्कृतशिक्षया एवाध्ययनस्यास्य प्रारम्भो जातः । कर्मकाण्डपरिवारे तादृश्येव व्यवस्था तदानीमासीत् । शिवोपासके परिवारे मूलशङ्करस्य कृते शिवरात्रिमहापर्व उद्बोधकं जातम् । रात्रिजागरणकाले मूलशङ्करेण दृष्टं यत् शङ्करस्य विग्रहमारुह्य मूषकाः विग्रहार्पितानि द्रव्याणि भक्षयन्ति । मूलशङ्करोऽचिन्तयत् यत् विग्रहोऽयमकिञ्चित्करः । वस्तुतः देवः प्रतिमायां नास्ति । रात्रिजागरणं विहाय मूलशङ्करः गृहं गतः । ततः एवं मूलशङ्करस्य मूर्तिपूजां प्रति अनास्था जाता । वर्षद्वयाभ्यन्तरे एव तस्य प्रियायाः स्वसुर्निधनं जातम् । ततः मूलशङ्करे वैराग्यभावः समागतः । गृहं परित्यज्य विभिन्नानां विदुषां सतां साधूनाञ्च सङ्गती रममाणोऽसौ मथुरायां विरजानन्दस्य प्रज्ञाचक्षुषः विदुषः समीपमगमत् । तस्मात् आर्षग्रन्थानामध्ययन प्रारभता । विरजानन्दस्य उपदेशात् वैदिकधर्मस्य प्रचारे सत्यस्य प्रसारे च स्वजीवनमसावर्पितवान् । यत्र – तत्र धर्माडम्बराणां खण्डनमपि स चकार । अनेके पण्डिताः तेन पराजिता : तस्य मते च दीक्षिताः ।

शब्दार्थ – नूनम् – अवश्यम् – निश्चय , विग्रहम् – मूर्तिम् – मूर्ति ( प्रतिमा ) , अकिञ्चित्करः – तुच्छः – साधारण , विहाय – त्यक्त्वा – छोड़कर , अनास्था – उदासीनता – आस्था का अभाव ( तटस्थता ) , परित्यज्य – विहाय – छोड़कर , प्रज्ञाचक्षुषः अन्धस्य – अन्धे का , दीक्षिताः दीक्षा प्राप्ताः – दीक्षित ।

सरलार्थ : स्वामी जी का जन्म गुजरात प्रदेश के टंकरा नामक गाँव में 1824 ई ० में हुआ था । बालक का नाम मूल शंकर रखा गया । संस्कृत शिक्षा से अध्ययन प्रारंभ किया । कर्मकांडीय परिवार में उस समय ऐसी व्यवस्था थी । शिवोपासक परिवार में मूलशंकर के निमित्त शिवरात्रि महापर्व का उद्घोषण किया गया । रात्रि जागरण के समय में मूलशंकर द्वारा देखा गया कि शंकर की मूर्ति पर चढ़कर चूहे मूर्ति पर चढ़ाए गए सामानों को खा रहे हैं । मूलशंकर ने सोचा कि यह मूर्ति साधारण है । वस्तुतः देवता की प्रतिमा नहीं है । रात्रि जागरण को छोड़कर मूल शंकर घर चला गया । तरह मूल शंकर का मूर्ति पूजा से विश्वास खत्म हो गया । दो वर्ष के भीतर ही उसकी पत्नी के स्वसुर का निधन हो गया । इसके पश्चात् मूलशंकर में वैराग्य भाव का उदय हुआ । घर छोड़कर विभिन्न विद्वानों , संतों , साधुओं का संगत करते हुए मथुरा में विद्वान विरजानन्द जो आँख के अंधे थे , के समीप आए । उनसे आर्षग्रंथों का अध्ययन प्रारंभ किया । विरजानन्द के उपदेश से वैदिक धर्म के प्रचार और सत्य के प्रसार में अपने जीवन को समर्पित कर दिया । जहाँ तहाँ धार्मिक आडम्बरों का खण्डन भी किया । अनेक विद्वान उनसे पराजित होकर उसके मत में दीक्षित हुए ।

स्त्रीशिक्षायाः विधवाविवाहस्य मूर्तिपूजाखण्डनस्य अस्पृश्यतायाः बालविवाहस्य च निवारणस्य तेन महान् प्रयासः विभिन्नैः समाजोद्धारकैः सह कृतः । स्वसिद्धान्तानां सङ्कलनाय सत्यार्थप्रकाशनामक ग्रन्थं राष्ट्रभाषायां विरच्य स्वानुयायिनां स महान्तमुपकारं चकार । किञ्च वेदान् प्रति सर्वेषां धर्मानुयायिनां ध्यानमाकर्षयन् स्वयं वेदभाष्याणि संस्कृतहिन्दीभाषयो : रचितवान् । प्राचीनशिक्षायां दोषान् दर्शयित्वा नवीनां शिक्षा पद्धतिमसावदर्शयत् । स्वसिद्धान्तानां कार्यान्वयनाय 1875 ईस्वी वर्षे मुम्बईनगरे आर्यसमाजसंस्थायाः स्थापनां कृत्वा अनुयायिनां कृते मूर्तरूपेण समाजस्य संशोधनोद्देश्यं प्रकटितवान् ।

सरलार्थ : स्त्री शिक्षा , विधवा विवाह , मूर्ति पूजा का खंडन और बाल विवाह रोकने के लिए विभिन्न समजोद्धारकों के साथ महान् प्रयास किया । अपने सिद्धांतों के संकलन के लिए सत्यार्थ प्रकाश नामक पुस्तक राष्ट्रभाषा में लिखकर अपने अनुयायियों के लिए बड़ा उपकार किया । और भी वेदों के प्रति सभी धर्मानुयायियों के ध्यान आकर्षित करते हुए स्वयं संस्कृत – हिन्दी में वेदभाष्य की रचना की । प्राचीन शिक्षा के दोषों को दिखाकर नवीन शिक्षण का मार्ग दिखलाया । अपने सिद्धांत के कार्यान्वयन के लिए 1875 ई ० में मुम्बई नगर में आर्यसमाज नामक संस्था की स्थापना कर अनुयायियों के लिए मूर्त रूप से समाज के संशोधन का उद्देश्य प्रगट किया ।

सम्प्रति आर्यसमाजस्य शाखाः प्रशाखाश्च देशे विदेशेषु च प्रायेण प्रतिनगरं वर्तन्ते । सर्वत्र समाजदूषणानि शिक्षामलानि च शोधयन्तिा शिक्षापद्धतौ गुरुकुलानां डी ० ए ० वी ० ( दयानन्द एंग्लो वैदिक ) विद्यालयानाञ्च समूहः स्वापिनो दयानन्दस्य मृत्योः ( 1883  ईस्वी ) अनन्तरं प्रारब्धः तदनुयायिभिः । वर्तमानशिक्षापद्धती समाजस्य प्रवर्तने च दयानन्द आर्यसमाजस्य च योगदानं सदा स्मरणीयमस्ति ।

शब्दार्थ – सम्प्रति – अधुना – इस समय , अनन्तरम् पश्चात् – बाद में ।

सरलार्थ : इस समय आर्यसमाज की शाखाएँ – प्रशाखाएँ देश और विदेशों में प्रायः प्रत्येक नगर में हैं । सभी जगह समाज के दोष और शिक्षा के दोषों को सुधार रहे हैं । शिक्षा पक्षा में गुरुकुलों में डी ० ए ० वी ० विद्यालय समूह का प्रारंभ ( 1883 ई ० में ) स्वामी दयानन्द की के पश्चात् उनके अनुयायियों द्वारा किया गया । वर्तमान शिक्षा पद्धति में और समाज के परिवती में दयानन्द और आर्यसमाज का योगदान सदा स्मरणीय रहेगा ।

व्याकरणम्

सन्धि विच्छेदः

इत्यादयः=इति + आदयः

धर्मान्तरम्=धर्म + अन्तरम्

धर्मोद्धारकाः=धर्म + उद्धारकाः

सत्यान्वेषिणः=सत्य + अन्वेषिणः

प्रादुरभवन्=प्रादुः + अभवन्

संकल्पाच्च=संकल्पात् + च

वर्षेऽ भूत्=वर्षे + अभूत्

एवाध्ययनस्यास्य=एवं + अध्ययनस्य + अस्य

तादृश्येव=तादृश्य + एव

शिवोपासके=शिव + उपासके

विग्रहार्पितानि=विग्रह + अर्पितानि

मूलशङ्करोऽचिन्तयत्=मूलशङ्करः +अचिन्तयत्

विग्रहोऽयम=विग्रहः + अयम्

स्वसुर्निधनम्=स्वसुः + निधनम्

साधूनाञ्च=साधूनाम् + च

रममाणोऽसौ=रममाणः + असौ

स्वजीवनमसावर्पितवान्=स्वजीवनम् + असौ + अर्पितवान्

समाजोद्धारकैः=समाज + उद्धारकैः

पद्धतिमसावदर्शयत्=पद्धतिम् + असौ + अदर्शयत्

संशोधनोद्देश्यम्=संशोधन + उद्देश्यम्

विद्यालयानाञ्च=विद्यालयानाम् + च

प्रकृतिप्रत्ययविभागः

जातम् = जन् + क्त
आरुहा =आ + रुहल्यप्
दृष्टम् =दृश् + क्त
गतः=गम् + क्त
जाता=जन् + क्त + टा
समागतः =सम+ आ- गम् + क्त
परित्यज्य=परि + त्यज् + ल्यप्
अगमत्=गम् लुङ ( प्रथमपुरुषः , एकवचनम् )
प्रारभत=प्र + आरम , क्त
चकार=कृ + लिट् ( प्रथमपुरुषः , एकवचनम् )
विरच्य =वि + रच् . ल्यप्
कृत्वा =कृ + त्वा
प्रारब्ध =प्र + आ + रभ् + क्त लङ ( प्रथमपुरुषः , एकवचनम् )
स्मरणीयम्=स्मृ + अनीयर
दर्शयित्वा =दृश् + णिच् + क्त्वा

समासः

कुत्सितरीतयः=कुत्सिताश्च ताः रीतयः , कर्मधारयः
अव्यापकता=न व्यापकता , नञ् समास :
धर्मान्तरणम्=धर्मस्य अन्तरणम् ( परिवर्तनम् ) , षष्ठी तत्पुरुषः
धर्मोद्धारकाः=धर्मस्य उद्धारकाः , षष्ठी तत्पुरुषः
सत्यान्वेषिणः =सत्यस्य अन्वेषिणः , षष्ठी तत्पुरुषः
वैषम्यनिवारकाः=वैषम्यस्य निवारकाः , पाठी तत्पुरुषः
शिवोपासकः=शिवस्य उपासकः , षष्ठी तत्पुरुषः
रात्रिजागरणकाल : =रात्री जागरणं , तस्य कालः , षष्ठी तत्पुरुषः
विग्रहार्पितानि =विग्रहे अर्पितम् , तानि , सप्तमी तत्पुरुषः
अकिञ्चित्करः=न किञ्चित् कर्तुं समर्थः , नञ् तत्पुरुषः
मूर्तिपूजा =मूर्तेः पूजा , पष्ठी तत्पुरुषः
धर्माडम्बरः=धर्मस्य आडम्बरः , षष्ठी तत्पुरुषः
समाजदूषणनि =समाजस्य दूषणानि , षष्ठी तत्पुरुषः
शिक्षापद्धति=शिक्षायाः पद्धतिः , षष्ठी तत्पुरुषः
प्रज्ञाचक्षुषः =प्रज्ञा चक्षुःयस्य तस्य ( अन्धस्य ) षष्ठी तत्पुरुषः
जातिवादकृतम्=जातिवादेन कृतम् , तृतीया तत्पुरुषः
संस्कृतशिक्षा=संस्कृतस्य शिक्षा , षष्ठी तत्पुरुषः

अभ्यासः

मौखिक

1 . स्वामिनः दयानन्दस्य विषये द्वे वाक्ये वदत । उत्तरम्- स्वामिनः दयानन्द एक : महान् समाजसुधारकः आसीत् । स : आधुनिक भारतवर्षे समाजसेवा शिक्षायाश्च महान् उद्धारकः आसीत् ।

2 . अधोलिखितानां समस्तपदानां विग्रहं वदत –
धर्माद्धारकः , सत्यान्वेषी , वैषम्यनिवारक :, शिखरस्थानीयः , संस्कृतशिक्षा

उत्तरम्- धर्मोद्धारक : -धर्मस्य उद्धारकः ।
सत्यान्वेषी – सत्यस्य अन्वेषी ।
वैषम्यनिवारकः – वैषम्यस्य निवारकः ।
शिखरस्थानीयः – शिखरे स्थानीयः ।
संस्कृतशिक्षा – संस्कृतस्य शिक्षा ।

3 . सन्धिविच्छेदं कुरुत –
संकल्पाच्च , धर्मान्तरम् , समाजोद्धरणस्य , सत्यान्वेषिणः , विग्रहार्पितानि
उत्तरम्- संकल्पाच्च- संकल्पात् + च ।
धर्मान्तरम् – धर्म + अन्तरम् ।
समाजोद्धरणस्य – समाज + उद्धरणस्य । सत्यान्वेषिणः – सत्य + अन्वेषिणः ।
विग्रहार्पितानि – विग्रह +अर्पितानि ।

4.पञ्च अव्ययपदानि वदत ।
उत्तरम्- यथा , तथा , सम्प्रति , च , शीघ्रम् ।

लिखितः 1 . अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क)मध्यकाले काः भारतीयं समाजम् अदूषयन् ?
(ख)के हिन्दुसमाज तिरस्कृत्य धर्मान्तरणं स्वीकृतवन्तः ?
( ग) स्वामिनः दयानन्दस्य जन्म कुत्र अभवत् ?
( घ ) विग्रहार्पितानि द्रव्याणि के भक्षयन्ति ?
(ङ)रात्रिजागरणं विहाय मूलशङ्करः कुत्र गतः ?

उत्तरम्– ( क ) मध्यकाले कुत्सितरीतयः भारतीय समाजम् अदूषयन् ।
( ख ) दलिता : हिन्दुसमाज तिरस्कृत्य धर्मान्तरणं स्वीकृतवन्तः ।
(ग)स्वामिनः दयानन्दस्य जन्म गुजरातप्रदेशस्य टंकरानामके अभवत् ।
( घ ) विग्रहार्पितानि द्रव्याणि मूषकाः भक्षयन्ति ।
(ङ)रात्रिजागरणं विहाय मूलशङ्करः गृहं गतः ।

2 . निम्नलिखितानां पदानां सन्धिविच्छेदं कुरुत –
एवाध्ययनस्यास्य , विग्रहमारुहा , वर्षेऽभूत , स्वजीवनमसावर्पितवान् , समाजोद्धारकैः , विद्यालयानाञ्च ।
उत्तरम्- एवाध्ययनस्यास्य- एव + अध्ययनस्य + अस्य ।
विग्रहमारुह्य – विग्रहम + आरुहृय ।
वर्षेऽभूत् – वर्षे + अभूत् ।
स्वजीवनमसावर्पितवान् – स्वजीवनम् – असौ + अर्पितवान् ।
समाजोद्धारकैः – समाज + उद्धारकैः । विद्यालयानाञ्च – विद्यालयानम् + च ।

3.अधोलिखितवाक्येषु कोष्ठात् समुचितं पदमादाय रिक्तस्थानानि पूरयत –
(क)स्वामी दयानन्दः …. आसीत् । ( समाजोद्धारकः / कृषक 🙂
(ख)बालकस्य नाम ……… इति कृतम् । ( मूलविष्णुः । मूलशङ्करः )
( ग ) शङ्करस्य विग्रहमारुहा ……. विग्रहार्पितानि द्रव्याणि भक्षयन्ति । ( खगाः / मूषकाः )
(घ)रात्रिजागरणं विहाय मूलशङ्करः ………. गतः । ( गृहम् / विद्यालयम् )
( ङ ) स्वामी दयानन्दः संस्थापकः आसीत् । ( आर्यसमाजस्य / सिखसमाजस्य )

उत्तरम्-
( क ) स्वामी दयानन्दः समाजोद्धारकः आसीत् । ( ख ) बालकस्य नाम मूलशङ्करः इति कृतम् । (ग)शङ्करस्य विग्रहमारुह्य मूषकाः विग्रहार्पितानि द्रव्याणि भक्षयन्ति ।
( घ ) रात्रिजागरणं विहाय मूलशङ्करः गृहम् गतः । ( ङ ) स्वामी दयानन्दः आर्यसमाजस्य संस्थापकः आसीत् ।
4 . निम्नलिखितानां पदानां प्रकृतिप्रत्ययविभागं कुरुत-
दर्शयित्वा , विरच्य , परित्यज्य , स्मरणीयम् , दृष्टम् , कृतम् , गतः
उत्तरम्
दर्शयित्वा=दृश् णिच् + क्त्वा
विरच्य =वि + रच् + ल्यप्
परित्यज्य =परि + त्यज् + ल्यप्
स्मरणीयम्=स्मृ + अनीयर्
दृष्टम् =दृश् + क्त
कृतम्= कृ + क्त
गतः =गम् + क्त

5 . कोष्ठकस्थेभ्यः धातुभ्यः उचितप्रत्ययं योजयित्वा रिक्तस्थानानि पूरयत –
( क ) प्राचीनसमाजे अनेके दोषाः ……. ( अस् )
(ख)तस्य जन्म 1824 ईस्वी वर्षे……. । ( भू ) (ग)बालकस्य नाम मूलशङ्करः इति ………… I ( कृ ) (घ)दयानन्दस्य योगदानं सदा …………। ( स्मृ )
( ङ ) ततः मूलशङ्करे वैराग्यभावः …….. । ( गम् ) उत्तरम्- ( क ) प्राचीनसमाजे अनेके दोषा : आसन् । (ख)तस्य जन्म 1824 ईस्वी वर्षे अभूत् ।
(ग)बालकस्य नाम मूलशङ्करः इति कृतम् ।
( घ ) दयानन्दस्य योगदानं सदा स्मरणीयम् ।
( ङ ) ततः मूलशङ्करे वैराग्यभावः समागतः ।

6 . अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगं कुरुत –
मूषकः , विद्वान , धर्मोद्धारकः , अगच्छत् , सह
उत्तरम्-
मूषक : गृहे मूषक : धावति ।
विद्वान् – देवदत्तः विद्वान् आसीत् ।
धर्मोद्धारक : -स्वामी दयानन्दः धर्माद्धारकः आसीत् । अगच्छत् – उमेश : विद्यालयात् गृहं अगच्छत् ।
सह – रामेण सह सीताऽपि वनं गतवती ।

7 . निम्नलिखितानां पदानां विपरीतार्थकपदानि लिखत –
विद्वान् , दोषः , पराजितः , अनास्था , उपकारम् , प्रारम्भः , गर्हितः , वैषम्यम्

उत्तरम्-
विद्वान् – मूर्खः ।
दोषः – गुणः ।
पराजितः – विजितः ।
अनास्था- आस्था ।
उपकारम् अपकारम् ।
प्रारम्भ : -समाप्तिः ।
गर्हितः – प्रशंसितः ।
वैषम्यम् साम्यम् ।

8 . अधोलिखितेषु पदेषु धातुयुक्तम् उचितं प्रत्ययं निर्दिशत –
(क)गत : –  गम्……………( घञ् । क्तः )
(ख)गत्वा- गम् +…………….  ( ल्युट् । क्त्वा )
( ग ) गमनीयम् -गम् + …………… ( अनीयर् / ल्यप् )
( घ ) उपगम्य -गम् + ………….. ( ल्यप् / क्त्वा ) ( ङ ) गन्तुम्- गम् + …………… ( यत् / तुमुन् ) उत्तरम्- ( क ) गत :- गम् + क्तः
(ख) गत्वा-गम् + क्त्वा
( ग ) गमनीयम्- गम् + अनीयर
(घ) उपगम्य -गम् + ल्यप्
(ङ)गन्तुम्- गम् + तुमुन्

9 . अधोलिखितानि रेखाङ्कितपदानि बहुवचने परिवर्तयत
( क ) स : ग्रन्थं विरच्य महान्तम् उपकारम् अकरोत् । (ख)सः प्राचीनशिक्षायां दोषमः अदर्शयत् ।
( ग ) स : गृहम् अपश्यत् ।
(घ)तत्र देवः पूजितः ।
(ङ)सः खगं पश्यति ।
उत्तरम्– ( क ) ग्रन्थानि
(ख)दोषाः
(ग) गृहाणि
(घ) देवाः , पूजिताः
(ङ) खगान्

10 . अधोलिखितं रेखाङ्कितपदमनुसृत्य प्रश्ननिर्माणं कुरुत –
( क ) मध्यकाले धर्मकार्येषु आडम्बर : आसीत् । ( ख ) तत्र विधवानां स्थितिः गर्हिता अस्ति ।
( ग ) बालकस्य नाम मूलशङ्करः आसीत् ।
( घ ) मूलशङ्करः मेधावी आसीत् ।
( ङ ) आर्यसमाजस्य शाखा : देशे विदेशेषु च वर्तन्ते । (च)मूलशङ्करस्य मूर्तिपूजां प्रति अनास्था जाता ।
(छ) गृहं परित्यज्य स : गतः ।

उत्तरम्-
( क ) मध्यकाले केषु आडम्बरः आसीत् ?
तत्र विधवानां स्थितिः का अस्ति ?
( ग ) कस्य नाम मूलशङ्करः आसीत् ?
(घ)क : मेधावी आसीत् ?
(ङ)कस्य शाखा : देशे विदेशेषु च वर्तन्ते ?
(च)मूलशङ्करस्य का प्रति अनास्था जाता ?
(छ)किम् परित्यज्य स : गतः ?




11 . अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं लिखत – सत्यान्वेषिणः , विधवानाम् , विषमे , धर्मोद्धारकाः , तेषु , प्रतिमायाम , वैदिकधर्मस्य , संस्कृतेन ।
उत्तरम्- सत्यान्वेषिणः- प्रथमा ( बहुवचन )
विधवानाम् – षष्ठी ( बहुवचन )
विषमे — सप्तमी
धर्माद्धारका : -प्रथमा ( बहुवचन )
तेषु सप्तमी ( बहुवचन )
प्रतिमायाम् सप्तमी ( एकवचन )
वैदिकधर्मस्य – षष्ठी ( एकवचन )
संस्कृतेन – तृतिया ( एकवचन )

                  योग्यताविस्तारः

आर्यसमाजस्य मूलोद्देश्यानि सन्ति –
1 . विश्वकल्याणम्
2 . ज्ञानज्योतिर्विस्तारः
3.ईश्वरस्य सर्वोच्चता , सर्वज्ञता – सर्वज्ञानमयो हि सः । 4.वेदानां प्रचार प्रसारश्च ।
5.कर्तव्याकर्तव्यज्ञानम्
6 . सर्वजनसमरूपता
7 . परहितम्
8 . सत्यस्य ग्रहणम् असत्यस्य त्यागश्च
‘ आर्य’- शब्दस्य अर्थः अस्ति
आर्यावर्तवासी , सभ्यः , श्रेष्ठः , सम्मान्यश्च । ” योऽहमार्येण परवान् धात्रा ज्येष्ठेन भामिनि ‘ ( रामायणम् , द्वितीय काण्डम् ) ‘
स्मृति’- ग्रन्थानुसारम् –
कर्त्तव्यमाचरन् काममकर्त्तव्यमनाचरन् ।
तिष्ठति प्राकृताचारे स तु आर्य इति स्मृतः ।।
विभिन्नैः धार्मिकचिन्तकैः सह दयानन्दस्य सम्पर्कः जातः ।

यथा –

देवेन्द्रनाथ ठाकुरः , केशवचन्द्र सेनः ( ब्रह्मसमाज 🙂 मैडम ब्लोवाट्स्की तथा कर्नल आलकॉटः ( थियोसॉफिकल सोसाइटी )
भोलानाथ साराभाई ( प्रार्थनासमाज 🙂
सर सैयदः ( संशोधित : इस्लामः ) च ।।।

Leave a Comment

error: Content is protected !!